________________
554
शब्दानामनित्यत्वसमर्थनम्
स्तम्भादिप्रत्यभिज्ञासु न तदैव विनाशधीः । क्षणभङ्गप्रतीकारं तेन ताः कर्तुमीशते ॥ २८२ ॥ शब्दस्य प्रत्यभिज्ञानवेलायामेव दृश्यते । शब्दरूपस्य विध्वंसः इति तन्नित्यता कुतः ॥ २८३ ॥
[ स्तम्भादिप्रत्यभिज्ञायाः शब्दप्रत्यभिज्ञायाश्च विशेषः ]
यद्यपि क्षणभङ्गभङ्गे प्रत्यभिज्ञाप्रामाण्यमस्माभिरपि समर्थयिष्यते - तथापि स्तम्भादिप्रत्यभिज्ञायाः शब्दप्रत्यभिज्ञाया एष एव विशेषः, यदत्र ' ध्वस्तः शब्दः इति तदैव प्रत्ययों जायते । अत एव तिरोहितेऽपि भावादियं अप्रमाणं प्रत्यभिज्ञेत्याहुः ॥
[शब्दप्रत्यभिज्ञायाः वस्त्वैक्यालम्बनत्वा संभवः ]
यद्यपि प्रियतेऽस्माकं शब्दो द्वित्रानपि क्षणान् । प्रत्यभिज्ञां तु कालेन तावता नावकल्पते ॥ २८४ ॥
[ न्यायमञ्जरी
तथाहि - शब्द उत्पद्यते तावत् । ततः स्वविषयं ज्ञानं जनयति, अजनकस्य प्रतिभासायोगात् । ततः तेन ज्ञानेन शब्दो गृह्यते । ततः संस्कारबोधः । ततः पूर्व ज्ञातशब्द' स्मरणम् । ततस्तत्सचिवं श्रोत्रं मनो वा शब्द प्रत्यभिज्ञानं जनयिष्यति । 'तदा' शब्दों ग्रहीष्यत
U
सामान्यस्याप्येवं निर्वाहे कथं क्षणभङ्गभङ्गः ? इत्यत्राह - स्तम्भादीति । तदैव - प्रत्यभिज्ञाकाल एव । तेन - तस्मात् । तथा च केवला प्रत्यभिज्ञा एकस्य वस्तुनः नित्यतां, अनित्यतां वा न साधयितुमलम् । किन्त्वबाधितैव । शब्दप्रत्यभिज्ञायामस्ति तदैव बाध:, न स्तम्भप्रत्यभिज्ञायाम् । क्षणभङ्गवादस्याप्यवसर इति भावः ॥
एवञ्च न
क्षणभङ्गभङ्गे – इति निमित्तसप्तमी । तत्प्रकरण इति वा ॥ 'जीवति स्वन्मतेंsपि' (पु. 527) इत्यादि समाधत्ते – यद्यपीति । द्वित्रानपि इत्यनास्थायाम् ॥
1 ज्ञान-क.
2 तथा - ख.