________________
आह्निकम् ३] शब्दत्वसामान्यसाधनम्
561 शब्दः शब्दोऽयमित्यवं प्रतीतिस्त्वप्रयोजिका । एषा हि श्रोत्रगम्यत्वं उपाधिमनुरुध्यते ॥ २७५॥
[शब्दत्वजातिसिद्धिः] तदेतन्निरनुसन्धानस्याभिधानम्। अनुसन्धानप्रत्ययस्य सामान्यसिद्धावप्रयोजकत्वात्। अनुसन्धानं हि सारूप्यात् विजातीयेष्वपि भवति, गवयग्रहणसमये गोपिण्डानुसन्धानवत् । तस्मात् अबाधितैकरूपप्रत्ययप्रतिष्ठ एव सामान्यव्यवहारः॥
समानबुद्धिग्राह्येऽपि सामान्येऽवस्थिते, क्वचित् । भवत्यन्यानुसन्धान, कचिद्वा न भवत्यपि ॥२७६॥
तदस्ति खण्डमुण्डादौ पिण्डसारूप्यकारितम्। . · गकारादिषु वर्णेषु तदभावात्तु नास्ति तत् ॥२७७॥ -न तु सामान्याभावात् ॥ - [सामान्यं न सारूप्यमात्रम् ]
न' च सारूप्यमेव सामान्य साङ्ख्यवदभिधातुं युक्तम् । विजातीयेष्वपि गोगवयादिषु तस्य दृष्टत्वात् ॥ __ यदि च 'शब्दः शब्दः' इत्यनुवृत्तबुद्धेः श्रोत्रगम्यत्वोपाधिकतत्वमुच्यते, तर्हि गवादावप्येकबुद्धेः वाहदोहाघेकार्थक्रियाकारित्व. अप्रयोजिकेति। 'रामसुग्रीवयोरैक्यं देव्येवं समजायत' (रा.सु. 36-52) इत्यादौ हि ऐकमत्यप्रयुक्तमपि ऐक्यं दृश्यते, तथेति भावः ॥
· निरनुसन्धानस्य-अविमर्शकस्य । सारूप्यात् इति । किशिदित्यादिः। विरोधादिनिबन्धनमपि स्मरणं कंसस्मरणे कृष्णस्येव दृष्टमत्र प्रायम् । अवस्थितेऽपि इत्यन्वयः। अन्येति। म्यक्त्यन्तरेत्यर्थः । तदभावात्-सारूप्याभावात् ॥
- विजातीयेष्वपीति । घटपटयोः सारूप्याभावेऽपि पृथिवीत्वद्रग्यस्वादिसामान्यं दृश्यत एव । यदि च तत्र तदनुगुणं सारूप्यमुपपायते, प्रकृतेऽपि तच्छक्यम् । एवमनभ्युपगमे कुत्रापि सामान्यं न सिध्येदिति बौद्धविजयप्रसङ्गः॥