________________
550
शब्दानामनित्यत्वसमर्थनम् न्यायमजरी अकारमाचक्षते। अत्वं च तत्सामान्य अवर्णकुलशब्देन 'व्यवहरन्तीति॥
हिस्वदीर्घत्वादयो वर्णधर्मा एव, न ध्वनिधर्माः] यत्तु ध्वनिधर्मस्यापि दीर्घादेः अर्थप्रतिपत्त्यङ्गत्वं तुरगवेगवदुक्तम् (पु. 523)-तदप्यहृदयङ्गमम् । शब्दादर्थ प्रतिपद्यन्ते लोकाः, न मरुद्भयः॥
अथ मरुतामपि तथा व्युत्पत्तेः अर्थप्रतीतिहेतुत्वं, तर्हि व्युत्पत्तिरेव प्रमाणं स्यात्, न शब्दः, व्युत्पत्तरव्यभिचारात्, शब्दस्य च व्यभिचारात् इत्यास्तामेतत् ॥
तस्मात् गत्वादिसामान्यैः अर्थसंप्रत्ययात्मनः। कार्यस्य परिनिष्पत्तेः न वर्णव्यक्तिनित्यता ॥२७२ ॥
[शब्दरवजात्यसिद्धिशङ्का] अपर आह-तिष्ठतु तावत् दूरत एव गत्वाद्यपरसामान्यम्, महासामान्यमपि शब्दत्वं वर्णेषु नोपपद्यते ॥
व्यक्तयन्तरानुसन्धानं यत्रैकव्यक्तिदर्शने । तत्रैकरूपसामान्यं इष्यते तत्कृतं च तत् ॥ २७३॥ गकारचतिवेलायां न वकारावमशनम् ।
बाहुलेयपरामर्शः शाबलेयग्रहे यथा॥२७४॥ प्रमाणं-अर्थप्रतीतिजनकम् । अर्थसंप्रत्ययात्मनः कार्यस्य इत्यन्वयः। अत्र ‘अस्मिन् समाप्यते वादः मर्मस्थानमिदं च नः' इत्युक्तं (पु. 541) भनुसन्धेयम् ॥ .
व्यक्तयन्तरेत्यादि। यदा एक घटं पश्यति, तदा देशान्तरकालान्तरदृष्टं घटान्तरं स्मरेत् चेत्, तत् किमिवन्धनम् ? इति शङ्कायां हि अनुगतधर्मसिद्धिर्वाच्येत्यर्थः। तत्-ज्यक्तयन्तरानुसन्धानम्। तस्कृतं-सामान्यकृतम् ।
1 व्यवहरन्तीति-ख.