________________
549
आडिकम् ३] गस्वादीनां गोत्वादिवज्जातित्वम्
[गोस्वादिवत् गत्वादिसामान्यसाधनोपसंहारः] , तदयं वस्तुसंक्षेपः-उपेक्ष्यतां वा सर्वत्र सामान्यविशेषव्यवहारः! इष्यतां वा गोत्वादिवत् गकारमेदवृत्ति गत्वसामान्यम् ॥
[अस्वादिकमपि गत्वादिवत् जातिरेव] अत्वमपि गत्ववदप्रत्याख्येयम् । इतरेतरविलक्षणानामकाराणां हस्वदीर्घप्लुतादिमेदेन प्रतिभासात्। यः पुनः 'आकारे'ऽप्यकारप्रत्यमिक्षानं ब्रूयात्, तस्य ईकारोकारप्रतीतिध्वपि अकारस्यैव प्रहणप्रसक्तिः, अच्त्वाविशेषात् ॥
अथ तदविशषेऽपि अवर्णात् इवर्णस्य मेदः इष्यते, स ताकारस्य न निह्रोतव्यः। एवञ्च सति अरण्यारण्यशब्दाभ्यां मिन्नार्थप्रतीतिरुपपत्स्यते ॥
उदात्तानुदात्तस्वरितसंवृतविवृतादिमेदोऽपि शब्दविदा प्रत्यक्ष एव, गीतशानामिव, स्वरग्रामभाषाविभागः। तस्मात् अष्टादशमेदं
हस्वदीर्घेति। अकारादयः प्रत्येकमष्टादशधा पूर्वमुक्ताः। यः 'पुनरिति । अयं च भाकारः न अकारः दीर्घः, किन्तु तदतिरिक्त एवेत्याशय: वस्तुतस्तु - यद्यपि अकारस्यैव प्रभेदः भाकारः (पु. 522); तथाऽपि वर्णमालायां भाकारस्य पृथग्रहणात् मात्वं अत्वात् मिश्चमित्याशयः। ईकारेति। अकारस्यैवायं प्रपञ्चः सर्वेऽपि वर्णा इत्यविवादमेव । भोकारादौ अकार-उकारद्वयरूपत्वं प्रत्यक्षत एव सिद्धम् ॥
एवं अकार-आकारयोर्भेदसाधनस्य फलमाह-एवञ्च सतीति॥
उदात्तत्यादि। उदात्तादिभेदात् अर्थभेदः 'इन्द्रशत्र 'पदादिषु स्पष्ट एव। इन्द्रस्य शत्रुरिति विवक्षायां हि अन्तोदात्तः, इन्द्रः शत्रुः यस्येति विवक्षायां तु आधुदात्त:। ग्रामः-स्वरसमूहविशेषः ।।
अकारे-ख.