________________
548 शब्दानामनित्यत्वसमर्थनम्
न्यायमञ्जरी ...अपि च शाबलेयादिभेदप्रत्ययस्यापि व्यञ्जकमेदनिबन्धनत्वात् एक 'एवासौ स्यात्॥
गोत्वगत्वजात्योरविशेष:] ननु ! तत्र को व्यञ्जकः, यद्भेदकृतः पिण्डभेदप्रत्यय इष्यते ? आह च (श्लो. वा. 1-1-5. स्फोट. 36)
"न पिण्डव्यतिरेकेण व्यञ्जकोऽत्र ध्वनिर्यथा। पिण्डव्यङ्गयैव गोत्वादिजातिनित्यं प्रतीयते' इति ॥ ...
तदयुक्तम-गोत्वजातेः गत्ववदिदानीं 'अविवादास्पदीभूतत्वात्। पिण्डमेदप्रत्ययस्य चक्षुर्व्यापारमेदादप्युपपत्तेः॥
[गकारादिभेदप्रतीतेः गवादिभेदप्रतीस्यविशेषः] ननु ! सकृदपि व्यापृतलोचनस्य परस्परविभक्तपिण्डप्रतिभासो भवति-मैवम् तदानी गोमात्रप्रतीतिः। एष शाबलेयः', 'एष बाहुलेयः' इति तु विशेषग्रहणे चक्षुर्व्यापारमेदोऽपरिहार्यः॥
[प्रत्यक्षेणैव गवि गकारादौ च विशेषस्य ग्रहणम् ] - यदि च आद्यगोपिण्डभेदे प्रथमाक्षसन्निपातजा बुद्धिः सुभगतां गता-गकारभेदे तर्हि किं कृतमस्या दौर्भाग्यम? तत्रापि प्रथमश्रोत्रव्यापारवेलायामनवगतव्यञ्जकविभागस्यापि . गगन-गङ्गादौ गकारमेदः प्रतिभासत एवेत्यलं प्रसङ्गेन ॥
व्यञ्जकः यथा शब्दे ध्वनिः । न पिण्डेति । अत्र-शब्दे । एवं जातिव्यञ्जकस्य पिण्डस्याप्यभेदे भेदप्रतीतेरालम्बनमेव दुर्वचम् । अत: पिण्डैक्यमसम्भवि। तथा च शब्दनानात्वे पिण्डनानात्वं न दृष्टान्तीभवितुमर्हति इति भावः। उभयोर्भेदस्य प्रत्यक्षसिद्धत्वात् तावन्मात्रे दृष्टान्तत्वमित्याह-गोत्वजातेरिति ।
मात्र पदेन विशेषव्यावृत्तिः। सामान्यमगृहीत्वा विशेषः कथं गृह्येत ॥ - वस्तुस्थितिमनुसृत्याह—यदीत्यादि। सुभगतां-अबाधितताम् ॥ 1 गौ:-क. ना-क. ३ विवादा-ख.
...