________________
आह्निकम् ३] गकारादिभेदस्योपाधिकत्वे दोष:
547 मेदाभावात् । अविद्यमाने च तदुपश्लेषे दिगजः, दिग्गज इति मेदेन प्रतिभासो भवत्येव । तथा च समदः-सम्मदः, पट:-पट्टः, आसनंआसन्नं, मल:-मल्लः, अविकः-अविक्कः, पतिः–पत्तिः, पतनंपत्तनं इत्यादावपि वर्णभेदप्रतीतिः। अर्थप्रतीतिमेदोऽपि दिगजदिग्गजादौ शब्दान्तरनिमित्तको भवितुमर्हति, न द्विरुञ्चारणकृतः । प्रन्थाधिक्यादर्थाधिक्यम्, नोच्चारणमेदात् ; शतकृत्वोऽपि प्रयुक्ते गोशब्दे सानादिमदर्थव्यतिरिक्तवाव्यसंप्रत्ययाभावात्। तथा च दिग्गज इति द्विगकारको निर्देश इत्याचक्षते शब्दविदः, न द्विर्गकार उच्चारित इति ॥
[गकारादिभेदस्यौपाधिकत्वे घटादिभेदस्याप्यौपाधिकरवापत्ति:]
ननु! गोगुरुगिरिगेहादावज्मेदेऽपि गकारप्रत्ययानुवृत्तेरेक एवायं गकारः-मैवं वोचः-एष एव हि भेदप्रत्ययः अस्माभिरुपदर्शितः। विनाऽपि च अजुपश्लेषं दिग्गजादो भेदप्रत्ययो वर्णितः । न च वयममेदप्रत्ययमपङमहे, किन्तु मेदप्रत्ययस्याप्यबाधितस्य भावात् , अनन्यथासिद्धत्वाञ्च गवादिवत् सामान्यविशेषरूपतां अमः। व्यञ्जकमेदनिबन्धनत्वं तु यरलवादावपि वक्तुं शक्यमित्युक्तमेव ॥ .
उच्चारणमेव न भवतीति नेत्याह-अविद्यमान इति। ननु दिग्गजः इत्यादावपि गकारस्य द्विरुच्चारणात् उच्चारणभेद एव, न तु वर्णभेद इति चेत्, तत्राह-अर्थप्रतीतिभेदोऽपीति। प्रन्थः -- गकाररूपः ॥ . गो-गुरु-गेहादिपदेषु अज्भेदात् भेदस्यानुभवसिद्धत्वमपि निराकरोतिनन्वित्यादिना। एष एवेत्युक्तं विवृणोति-विनाऽपीति । ननु ‘स एवायं गकारः' इत्यभेदप्रत्ययोऽप्यस्त्येवेति भेद एव कुतोऽन्यथासिद्धो न स्यादिति शङ्कायां, अस्ति प्रतीतिद्वयमपि। किन्तु भेदे सत्यभेदप्रतीतेः साजात्याद्यालम्बनत्वेनास्ति बहुला दृष्टान्ता: ; न तथा अभेदे भेदप्रत्यये । भन्यथा गवादिष्वपि भेद औपाधिकः स्यादित्याह-न चेत्यादिना। सामान्यविशेषः-सामान्य भिन्नम् , विशेषश्च मिन एव ॥
35*