SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ 546 शब्दानामनित्यत्वसमर्थनम् न्यायमजरी [शुक्लादिगुणभेदवत् गकारादिभेदः] ___ यथा च शुक्लगुणस्य भास्वरधूसरादिमेदवतो नानात्वं, तथा वर्णस्याप्युदात्तादिमेदवतः। शुक्लगुणोऽप्येक एव, आश्रयमेदातु तद्भेद इति चेत् ; अहो रससमारूढो भट्टः! कमैकं बुद्धिरप्येका जगत्येकः सितो गुणः । 'तचैतन्नित्यमित्येताः स्त्रीगृहे कामुकोक्तयः ॥ २७१॥ . [गकारभेदाभावे आत्मभेदोऽपि न स्यात् ] अपि च एकात्मवादोंऽप्येवमेवावतरेत् , सुखिदुःख्यादिभेदस्य । शरीरमेदेनाप्युपपत्तेः। अद्वैतस्य च नातिदवीयानेष पन्था इत्यल.. मलीकविकत्थनेन ॥ तस्मात् बुद्धयादिवत् सर्वदा सविशेषाणामेव वर्णानां ग्रहणानानात्वम् ॥ [गगनपदादिषु अजुपश्लेषभेदाधीन: गकारभेदः न वक्तं शक्यः] तवैतत्स्यात्-गगनादावकारोपश्लेषकृत एव भेदप्रत्ययः, न स्वरूपमेद इति (पु. 522) तदयुक्तम्-अकारस्यापि भवन्मते . भास्वरधूसरेति। शुक्लरूपवतोः द्वयोः पटयोः भेदे दृष्टे तद्गतशुक्लगुणस्यापि दृश्यमानः भेदः दुरपहवः । न च शुक्लरूपे भेद एव नास्ति; भन्तत: दीप-पटगतयोर्वा शुक्लयोर्भेदावश्यम्भावात् । कामुकोक्तयःभस्वाधीनबुद्धिकस्योक्तयः। कामुको हि स्त्रियं वशीकर्तुं स्वैरं प्रलपति पुण्यपापादिविभागादिकमपलपन् ॥ अपि चेत्यादि । आत्मनां हि नानात्वं नित्यत्वं च आत्मवादे (श्लो. 1-1-5) स्थापितं तैरपि । गगनादौ-'गगनं' इत्यादिपदे। अकारस्यापीति। गोगुरुगेहादौ मिन्नाः स्वराः सन्ति, न तु गगनपदे इति भावः। भकारोपश्लेषमन्तरा 1 तैश्च-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy