________________
आह्निकम् ३] गकारादिभेदस्यानोपाधिकत्वम्
545 [तब्यक्तित्वरूपविशेषस्तु गकारद्वयेऽप्यस्त्येव] ननु ! तत्रापि विशेषग्रहणं कल्प्यते, अन्यथा 'विच्छेद'प्रतीत्यनुपपत्तः। यद्येवं वर्णेष्वपि गगनादौ विच्छेदप्रतीतिदर्शनात् कल्प्यतां विशेषग्रहणम् ॥
[गकारद्वयगततव्यक्तित्वस्यानोपाधिकत्वम् ननु! अस्त्येव तत्, किन्त्वौपाधिकं स्फटिके रक्तताप्रत्ययवत्विषमो दृष्टान्तः। स्फटिकस्य शुद्धस्य दृष्टत्वाल्लाक्षाद्युपाधिनिमित्तको भवतु रक्तता प्रत्ययः। वर्णानां तु नित्यमेवोदात्तादिविशेषवतां प्रतिभासात्, तद्रहितानामनुपलब्धेश्च नैसर्गिक एवायं मेदः। तद्यथा बुद्धीनां घटपटादिविषयविशेषशून्यानामसंवेदनात् प्रतिविषयं नानात्वं, तथा वर्णानामपि प्रत्युदात्तादिविशेषं नानात्वम्। 'नच बुद्धिरेकैव नित्या च, विषयमेदोपाधिनिबन्धनस्तद्भेद इति 'साम्प्रतम्'–स्वयमेव 'बुद्धिजन्म प्रत्यक्षम्' (जै. सू. 1-1-5) इत्यभिधानात् । अस्माभिश्च बुद्धिनित्यताया उपरिष्टानिराकरिष्यमाणत्वात् (८ भाढिके) ॥
विषयमेदाश्च तद्भेदाभिधाने विषयस्यापि कुत इदानीं भेदः ? बुद्धिमेदादिति चेत्-इतरेतराश्रयप्रसङ्गः। तदिमाः स्वत एव भेदवत्यो बुद्धयः, विषयाणामपि स्वत एव भेदो भवति; 'स तु बुद्धिभिः शायत इत्यलमर्थान्तरगमनेन ॥
ननु भ्रमणरेचनयोः गतिभेदरूपविशेषग्रहणमस्त्येवेति चेत्, गकारेऽपि . प्रत्युधारणं तथाविशेषः भासत एवेत्याह-तत्रापीत्यादि।
औपाधिकं-उच्चारणभेदप्रयुक्तव्यञ्जकवायुभेदाधीनम् । असंवेदनात्-अननुभवात् ।। __इदानी-विषयभेदस्यानिर्णयकाले ॥
रकता-ख.
विच्छिन्न-क. 5स च-ख.
ननु-क.
शान्तम्-क.
NYAYAMANJARI
35