________________
शब्दानामनित्यत्वसमर्थनम्
न तु द्रुतादिभेदेन निष्पन्ना संप्रतीयते । गव्यक्तयन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा ॥ २७० ॥ इति नैतद्युक्तम्- शाबलैयादौ प्रतिव्यक्ति सास्नाखुरककुदाद्यवयववर्तिनो विशेषाः प्रतिभासन्ते । ते च स्थूलत्वात् सुगमा भवन्ति । यत्र तु तिलतण्डुलकुलत्थादौ प्रतिसिक्थं विशेषा न प्रतिभासन्ते, तत्र विशेषप्रतीत्यभावेऽपि विच्छेदप्रतिभासो विद्यत एव, सिक्थात् सिक्थान्तरत्वेन प्रतिभासात् । एवमिहाप्येष गकारविशेष इति प्रतिभासाभावेऽपि विच्छेदग्रहणात् गकारनानात्वम् ॥
544
[ व्यक्तिभेदग्रहणे असाधारणाकारापेक्षाऽपि नास्ति ]
ननु ! तण्डुलादावपि सिक्थात् सिक्थान्तरे विशेषाः प्रतिभासन्त एव । तदप्रतिभासे भेदस्यापि ग्रहीतुमशक्यत्वात् – मैवं वादी :- यत्ने सति चतुरश्रत्रिकोणवर्तुलत्वादिविशेषा अप्यमुत्र प्रतिभासिष्यन्ते । एवं गकारेष्वपि । प्रयत्नं विनाऽपि तु 'प्रथमाक्ष'निपात एव विच्छेदबुद्धिरुत्पद्यत इति तयैव नानात्वसिद्धिः ॥
[असाधारण्यग्रहणाभावेऽपि भेदग्रहणोपपत्ति: ]
ननु ! नैवानधिगतविशेषस्य विच्छेद बुद्धिरुत्पत्तमर्हतीति विशेषबुद्धिरेव विच्छेद बुद्धि: - नैतदेवम् - भ्रमणादिकर्मक्षणानां सूक्ष्मविशेषाप्रतिभासेऽपि विच्छेदप्रतिभासात् ॥
[ न्यायमञ्जरी
गव्यक्तिः - एको गकारः । सिक्थं अपक्कः पुलाकः । ' स्थालीपुलाकवत्' इत्यादौ द्रष्टव्यम्। प्रतिसिक्थं - तण्डुलानामेव परस्परम् ॥
विशेषाः -- तत्तद्व्यक्तयसाधारणाः आकाराः । एताशा विशेषाः कावपि परस्परं सन्त्येव सूक्ष्ममतिप्राह्याः । नेदानीमस्माभिरिदमुच्यते । तण्डुला हि दर्शनमात्रेणैव पृथक्पृथग्भिन्ना एवोपलभ्यन्ते ; न तु सर्वे तण्डुला एकत्वेनेति समाधत्ते यत्ने सतीति ॥
भ्रमणादीति !
'भ्रमणरेचनस्पन्दनोर्ध्वज्वलन तिर्यक्पतननमनोम
नादयः गमनविशेषाः, न जात्यन्तराणि ' ( प्र भा - कर्म ) इति भ्रमणादीनां परस्परभेदप्रतीतिः दृष्टैव ॥
1
प्रथमाक्षर-क.
12 भेद- क.