________________
548
आह्निकम् ३)
गकारादिभेदसमर्थनम् वर्णभेदप्रत्ययस्य तत्कृतत्वं काममाशङ्कयेतापि। वक्त्रेकत्वे तु गगनादौ कुतः तत्कृतो भेदः ?
[गकाराणामुच्चारणभेदौपाधिक: भेद इत्यपि न युक्तम् ] ननु ! तत्रापि मरुतो भिन्ना एव व्यञ्जकाः, मुखं त्वेकं भवतु ! किं तेन ? तदपि वा भिन्नमित्येके। उच्यते-स तर्हि मरुतां भेदः यरलवादिष्वपि तुल्य इति मा भूत्तेषामपि मेदः ॥ . [यरलवादिभेदाभावेऽपि गकारद्वयभेदः घटद्वयभेदवत् प्रत्यक्षसिद्धः]
ननु ! यरलवानां विशेषप्रतीतिरस्ति, गकारे तु सा नास्तीत्युक्तं, (पु 535) उच्चारणस्यैव तत्र भेदः, नोच्चार्यस्येति। नैतत् सारम् - मा भूदेष विशेष इति प्रतीतिः, भेदबुद्धिस्तु विद्यत एव। अन्या च विशेषबुद्धिरुच्यते, अन्या च भेदबुद्धिरिति। विशेषाप्रतिभासेऽपि क्वचिद्विच्छेदप्रतीति विशेषात् ॥
जात्यैक्येऽपि व्यक्तिभेदः गृह्यत एव ननु! अनोच्यते (521)
दृश्यते शाबलेयादिव्यक्तयन्तरविलक्षणा ।
बाहुलेयादिगोव्यक्तिः तेन भेदोऽस्ति वास्तवः॥२६९॥ . गगनादौ-गगनपदादौ। तत्र हि गकारद्वयं एकेनैवोच्चरितम् । तस्कृत:-व्यञ्जकभेदकृतः॥
भिन्ना मरुत इति। प्रत्युच्चारण व्यञ्जकावायवाः भिद्यन्त एव। तदपिमुखमपि। यादृशसन्निवेशविशेषविशिष्टोऽवयवसमुदायात्मा मुखपदवाच्यः शब्द, मभिव्यञ्जयति, तादृशसन्निवेशविशेषाः प्रत्युच्चारणं भियन्त एव हि ॥
एष विशेष इति। गकारद्वयश्रवणे यरलवानां श्रवण इव 'अत्रायं विशेषः' इति विशेषस्य सुनिरूपत्वाभावेऽपि समानयोर्घटयोरिव व्यक्तिभेदप्रतीतिस्तु वर्तत एव। किञ्चित्साजात्यं तु शषसानामप्यस्त्येव । अन्येति । विशेषो हि ब्यावर्तकाकारः घटत्वपटस्वादिः। भेदस्तु घटयोरपि विद्यमानः तब्यक्तित्वरूपः ॥
1दर्शनात्-ख.