________________
542
शम्दानामनित्यत्वसमर्थनम
[न्यायमरी
तेनान्यत्सर्वमुत्सृज्य वादस्थानकडम्बरम्। गत्वादिजातिसिद्धयर्थमथातः प्रयतामहे ॥ २६८ ॥
गत्वस्य जातित्वसाधने उपोद्धातरचनम् ] तत्रेदं विचार्यताम्-य 'एष' गकारभेदप्रतिभासः, स किं व्यञ्जकभेदकृतः ? उत वर्णभेदविषयः? इति ॥
व्यञ्जकभेदकृते तस्मिन् एकत्वाद्कारस्य किंवृत्ति गत्वसामान्य स्यात् ?
वर्णभेदविषयत्वे तु तद्भेदसिद्धरभेदप्रत्ययस्य विषयो मृग्य इति तद्ग्राह्यमपरिहार्य गत्वसामान्यम् ॥
[गकारादिभेदप्रतिभासः न व्यञ्जकभेदकृत:] तदुच्यते-नायं व्यञ्जकभेदकृतः गकारभेदप्रत्ययः। यदि हि व्यञ्जकभेदाधीन एष भेदप्रतिभासः, 'तर्हि यरलवादिवर्णमेदप्रत्ययोऽपि तत्कृत एव किमिति न भवति ? ततश्च सकलवर्णविकल्पातीतमेकमनवयवं 'शब्दब्रह्म वैयाकरणवदभ्युपगन्तव्यम् ॥
[यरलवादिभेदवत् गकाराणामप्युच्चारणभेदात् भेद एव]
अथ मनुषेयरलवादीनामितरेतरविभक्तस्वरूप'परिच्छेदाद्विषयभेदकृत एव भेदप्रत्ययः, नोपाधिनिबन्धन इति-तर्हि गङ्गागगनगर्गादौ गकारभेदप्रतिभासोऽप्येष न व्यञ्जकमेदाधीनो भवितुमर्हति, तत्रापि परस्परविभिन्नगकारस्वरूपप्रतिभासात् । शुकसारिकामनुष्येषु हि वक्तृभेदे सति व्यञ्जकनानात्वसंभावनया ___एकत्वादिति। बहूनामनुगमाय किल जातिः। अत एव एकन्यक्तिवृत्तेन जातित्वम् ॥
तदग्राह्य-अभेदग्रहविषयः। 'सैवेय दीपज्वाला' इत्यादिः दृष्टान्तः ॥
ननु उक्तमेवासकृत् 'शब्दो यद्यपि वर्णात्मा श्वोत्रप्राह्यो न विद्यते' (पु 538) इति, इतिचेत्तत्राह-ततश्चति । ततश्च स्पोटनिरासस्तव अर्थरहित
एव॥
1 एव-ख.
2 शब्दतत्त्वं-ख.
3 प्रतिभासात-ख.