________________
आह्निकम् ३} शम्दानित्यत्वसमर्थनोपक्रमः
541 – शब्दानित्यत्वसिद्धान्तः - शब्दनित्यत्वे प्रत्यक्षार्थापत्योरप्रमाणत्वप्रतिज्ञा] अत्र महे-न खलु भवदभिहितमेत् प्रमाणद्वयमपि शब्दनित्यतां प्रसाधयितुमर्हति ॥
[अर्थापत्त्या शब्दनित्यस्वसिद्धिदूषणम् ] यावता यदर्थापत्तिरवादि(पु. 517)-दर्शनस्य परार्थत्वादिति-सा क्षीणैव, अर्थप्रतीतेरन्यथाऽप्युपपन्नत्वात् ॥
गत्वादिजातिद्वारैव शक्तिग्रहः बोधश्च] तत्र सादृश्यमण्यनभ्युपगतमेव दूषित (पु. 518) मित्यस्थाने क्लिष्टा भवन्तः ॥
गत्वादिजातीराश्रित्य सम्बन्धग्रहणादिकः । अर्थावगतिपर्यन्तः व्यवहारः प्रसेत्स्यति ॥ २६४ ॥ [गत्वादिजातिसिद्धयसिद्धयधीनत्वं शब्दानित्यत्वनित्यत्वयोः] ननु गत्वे प्रतिक्षिप्त एतदेव परीक्ष्यताम् । अस्मिन् समाप्यते वादः 'मर्म स्थानमिदं च नः ॥ २६५ ॥ प्रतिक्षिप्त च गत्वादौ नाथसंप्रत्ययोऽन्यथा। प्रत्यभिज्ञानभूमिश्च नान्याऽस्तीति वयं जिताः ॥२६६ ॥ सिद्धे तु गत्वसामान्ये तत एवार्थवेदनम् । तदेव प्रत्यभिज्ञेयमिति यूयं पराजिताः ॥ २६७ ॥
अन्यथा-शब्दनित्यत्वमन्तराऽपि । नित्यत्वाङ्गीकारेऽपि हि यावद्वोधं शब्दः श्रोत्रे परिचङ्क्रममाणो न ह्यनुभूयते॥
प्रतिक्षिप्त इत्यादि। अन्यस्मिन् गोशब्दे शक्तिग्रहः, अन्यस्माच बोध इत्यनुपपत्तिः गत्वादिजातिमूलैव परिहरणीया। तथा 'सोऽयं गकारः' इति प्रत्यभिज्ञाऽपि साजात्यमूलैव हि निर्वाह्या। प्रत्यभिज्ञेयं-प्रत्यमिज्ञाविषयः ॥