________________
540
मीमांसकैः शब्दनित्यत्वसाधनम्
[न्यायमजरी
तेनानुमानदोषेण प्रत्यक्षं न हि दृष्यते। सिद्धान्तान्तरचिन्ता तु भवेत् भृशमसङ्गता ॥ २५८॥ निर्वाधं प्रत्यभिज्ञानमस्ति चेत् बुद्धिकर्मणोः । तयोरप्यस्तु नित्यत्वं नो चेत् का शब्दतुल्यता ॥२ ९॥ तस्मानित्यः प्रत्यभिज्ञाप्रभावात्
सिद्धः शब्दः पश्यतां तार्किकाणाम् । अर्थापत्तिः पूर्वमुक्ता च तस्मिन्
अस्थायित्वे युक्तयश्च व्युदस्ताः॥२६०॥ अस्ति च वेदे वचनं सिद्धा'मनुवदति यद्धृवां वाचम् । तल्लिङ्गदर्शनादपि नित्यः शब्दोऽभिमन्तव्यः ॥ २६१ ॥ शिक्षाविदस्तु पवनात्मकमेव शब्दं
आचक्षते तदसमञ्जसमप्रतीतेः । अर्हन्मतप्रथितपुद्गलपर्युदास- .
नीत्या च वाय्ववयवा अपि वारणीयाः ॥२६२ ॥ येऽपि स्थूलविनाशदर्शनवशायुः क्षणध्वंसिनः
भावांस्तेऽपि न शक्नवन्ति गदितुं शब्दस्य विध्वंसिताम् । अन्ते हि क्षयदर्शनात् किल तथा तेषां भ्रमोऽस्मिन् पुनः शब्दे नान्तपरिक्षयाविति कथं कुम्भादिवद्भङ्गिता? ॥२६३॥
स्वरूपतोऽनुमेये। अतश्च तयोनित्यत्वानित्यत्वेऽपि अनुमानविचार्ये एव । अतस्तद्दष्टान्तोऽत्र विषमः' इति सिद्धान्तभाष्याशयः---इति व्याख्यातवान् (श्ल'. वा. 1-1-6-375-378, 389--392)। स एष वृथा क्लेशः, अस्मदुक्तरीत्या सुव्याख्यत्वादित्याह-सिद्धान्तान्तरेति । सिद्धान्तान्तरंसिद्धान्तिसम्मतमर्थान्तरमित्यर्थः ।।
पश्यतां तार्किकाणां इत्यनादरे षष्ठी उपहासार्था ।।
'लिङ्गदर्शनाच' (जै.सू. 1-1-6-23) इति सूत्रभाष्योक्तमनुवदतिअस्ति च वेद इति। 'वाचा विरूपनित्यया' इति वचनं विवक्षितम् ।।
'प्रख्याभावाच्च योगस्य' (जै. सू. 1-1-6-22) इति सूत्रभाष्योक्तमनुवदति-शिक्षाविद इति ॥
। सिद्ध-क.