________________
पाह्निकम् ३] शग्दैक्यप्रत्यभिज्ञाया: निर्दुष्टत्वम्
539 अपक्ष'पातिनः' सभ्याः सत्यमुत्पत्त्यपेक्षया।
शब्दस्य कल्पनामाहुः अभिव्यक्तौ लघीयसीम् ॥२५६॥ तदेवमभिव्यक्तिपक्षे नियतग्रहणोपपत्तः प्रत्यभिशाप्रत्ययप्रामाण्यात् नित्यत्वमेवोपगन्तव्यम् ॥
सोऽयंगकार इत्यादिमत्यभिज्ञाया: अनन्यथासिद्धत्वम] या त्वनैकान्तिकत्वोक्तिः धीकर्मप्रत्यभिज्ञया।
प्रत्यक्षे चोद्यमानाऽसौ दर्शयत्यतिमूढताम् ॥२५७ ॥ ज्याकः । स च कदाचित् वर्णरहितः केवलो गृयते शङ्खघोषादिषु, कदाचित् वर्णानमिन्यञ्जयन् तदुपश्लिष्टः प्रतीयते' (श्लो. वा. व्या. १-१-५ स्फोट ३९) इति पार्थसारथिवाक्यान्यपि अत्रावधेयानि ॥
_ 'बुद्धि-कमर्णी अपि प्रत्यभिज्ञायते । ते अपि नित्ये प्राप्नुतः । नैष दोषः । न हि ते प्रत्यक्षे। अथ प्रत्यक्षे नित्ये एव' (शा. भा. 1-1-6. 20) इत्यायनुवदति-या त्विति। न हि ते प्रत्यक्षे। अथ प्रत्यक्षे नित्ये एव' इति सिद्धान्तभाष्यस्याशयमाह-प्रत्यक्ष इति । शब्दस्तु प्रत्यक्षः। बुद्धिकर्मणी त्वतीन्द्रिये। अतश्च तत्र प्रत्यभिज्ञा न प्रत्यक्षरूपा, किन्तु अनुमानरूपैव वाच्या। कालद्वयविषयकमनुमानं भवितुमर्हत्येव । तथा च परोक्षेयं प्रत्यभिज्ञा न स्वदृष्टान्तेन शब्दविषयप्रत्यभिज्ञाप्रत्यक्षं बाधितुं समर्थम् । शब्दवदेव तयोरपि यदि स्यात् प्रत्यभिज्ञाप्रत्यक्षं, तदा स्यातां कामं ते अपि नित्येइति समाधानभाष्याशयः ॥ ____ कुमारिलस्तु-'अथ प्रत्यक्षे, नित्ये एव ' इति भाष्यं प्रत्यक्षत्वमानं नित्यत्वापादनक्षमपरं भाति । तत्तु प्रत्यक्षे घटादौ नित्यत्वाभावात् व्यभिचरितम् । भतो भाष्यमिदं यथाश्रुततयाऽसम्बद्धमिव - इत्याक्षिप्य ; नात्र प्रत्यभिज्ञया शब्दनित्यत्वं साध्यते, येन बुद्विकर्मणोः व्यभिचारः स्यात् । किन्तु शब्दानित्यत्वे प्रत्यभिज्ञाविरोध एव। एवञ्च 'तर्हि बुद्धिकर्मणोरपि तथा प्रत्यभिज्ञानात् अनुभवसिद्धमनित्यत्वं विहाय नित्यत्वमेवाङ्गीकर्तन्यं स्यात्' इति सिद्धान्तिसम्मतार्थन्तरदूषणे कृते, 'शब्दस्य प्रत्यक्षत्वात् तन्नित्यत्वमपि प्रत्यक्षमेव । अतस्तस्यानित्यत्वे उक्ते प्रत्यभिज्ञाविरोधः। बुद्धिकर्मणी तु
पतिता:-क.
प्रत्यक्ष क.