________________
538
मीमांसकैः शन्दनित्यत्वसाधनम्
न्यायमरी
स उपलभ्यते। अनुमेयमारुतपक्षेऽपि तदानीमास्यसमीपसन्निधापिततूलककर्मणा सोऽनुमीयते ॥
स गच्छन् सर्वतोदिकः स्तिमितानिलनोदनम् । करोति, कर्णाकाशे च प्रयाति श्रुतियोग्यताम ॥२४९ ॥ स च प्रयत्नतीव्रत्वमन्दत्वेन तदात्मकः । . शब्दे तथाविधज्ञप्तिहेतुतामवलम्बते ॥२५०॥ स चैष गच्छन्नुद्दामवेगयोगाहितक्रियः। शरवद्वेगशान्त्यैव न दूरं गन्तुमर्हति ॥ २५१॥ स मूर्तः प्रसरन्मूर्तेः अपरैः प्रतिबध्यते । कुडयादिभिरतो नास्य श्रुतिर्व्यवहितात्मनः ॥२५२॥ : स वेगगतियोगित्वात् आगच्छति यतो यतः । श्रोता ततस्ततः शब्दं आयान्तमभिमन्यते ॥ २५३॥ स तु शङ्खादिसंयोगप्रेर्यमाण: समीरणः । शब्दस्यावर्णरूपस्य भवति व्यक्तिकारणम् ॥ २५४॥ शब्दो' यद्यपि 'वर्णात्मा श्रोत्रग्राह्यो न विद्यते ।
तथाऽपि तत्र शब्दत्वं श्रवणेन ग्रहीष्यते ॥२५५॥ तदिह न कदाविदस्माभिरधिका कल्पना कृता, मारुतगते. रस्याः सर्वलोकप्रसिद्धत्वात् । कर्णाकाशसंस्कारमात्रमदृष्टं कल्पितम्। तदपि कार्यार्थापत्तिगम्यत्वान्नापूर्वमिति ॥
तदात्मकः-तीव्रमन्दात्मकः । मूर्त:-शब्दो हि द्रव्यम् । यतो यतः --यद्याद्दशः । अवर्णरूपस्य-ध्वनिरूपस्य । शब्द इति । ध्वनिपदवाच्यः नाद एव श्रोत्रग्राह्यः । तदारूढत्वात् कौथ्यमारुताभिव्यक्तः वर्णोऽपि श्रोत्रग्राह्य . इवाभाति इति वार्तिकतड्याख्ययोः स्पष्टम् (1-1-6.223-224)। 'द्विविधो हि शब्दः-वर्णः ध्वनिश्च । द्वयोरनुगतं शब्दत्वम् । वर्णत्वं ध्वनित्वं च तस्सामान्ये। वर्णविशेषाः गकारककारादयः, ध्वनिविशेषाः शङ्खघोषादयः । ध्वन्यात्मकश्च शब्दः वायुगुणः। स एव च वर्णात्मकानां ककारादीनामभि
1 यद्वा-ख. 2 अवर्णात्मा-क