________________
आह्निकम् ३]
शम्मनित्यत्वपक्षे लाघववर्णनम्
537
लघवोऽवयवाश्चैते निबद्धा न च केनचित् । न चैनं कठिनं कर्तुं वर्णावयविनं क्षमाः ॥२४॥ कृशश्च गच्छन् स कथं न विक्षिप्येत मारुतैः। दलगो वा न भज्येत वृक्षाद्यमिहंतः कथम् ? ॥२४३॥ प्रयाणकावधिः कश्च गच्छतोऽस्य तपस्विनः । एकश्रोत्रप्रविष्टो वा स श्रूयतापरैः कथम् ? ॥२४४॥ निष्कम्य कर्णादेकस्मात् प्रवेशः श्रवणान्तरे । यदीष्येत कथं तस्य युगपद्बहुभिः श्रुतिः ॥ २४५॥ श्रोतृसंख्यानुसारेण न नानावर्णसंभवः । वक्तुस्तुल्यप्रयत्नत्वात् 'श्रोतृभेदतदैक्ययोः ॥ २४६ ॥ ततलं परिहासस्य महतो हेतुभूतया। मनक्षपणकाचार्यप्रशाचातुर्यचर्चया ।। २४७॥
बौद्धोक्तशब्दग्रहणप्रकारदूषणम्] शाक्यप्रायास्त्वाचक्षते-अप्राप्त एव शब्दः श्रोत्रशक्तया गृह्यत इति-तदेतदतिव्यामूढभाषितम्-अप्राप्ति तुल्यतायां दूरव्यवहितादीनामश्रवणकारणाभावात्। प्राप्यकारिताख्यकर्मधर्माप्रसङ्गाश्च । न च चार्वाकवदपरीक्षित एवायमर्थ उपेक्षितुं युक्तः ॥
इति कार्यत्वपक्षेऽमूः श्रतास्तार्किककल्पनाः । अथाभिव्यक्तिपक्षेऽस्य शृणु श्रोत्रियकल्पनाम् ॥ २४८॥
[शब्दनित्यत्वपक्षे लाघववर्णनम् विषक्षापूर्वकप्रयत्नप्रेर्यमाणस्तावद्वेगवत्तया क्रियावत्तया च कौष्ठयो बहिर्निस्सरति समीरण इति सुस्पष्टमेतत् । प्रत्यक्षनिकट'. पवनवादिनां पक्षे पवनसमये वक्तृवदननिकट निहितहस्तस्पर्शेनैव
प्रत्यक्षनिकटपवनवादिनां-वक्सनिकृष्टपवनप्रत्यक्षत्ववादिनामित्यर्थः॥
-
शिक्षा
। श्रोतभेदे तदत्यवे-स्व.
अप्राप्तवा-ख. प्रत्यक्ष-ख.