________________
536
मीमांसकै: शन्दनित्यत्वसाधनम्
न्यायमन्जरी [साङ्खयोक्तशब्दग्रहणप्रकारदूषणम् ] कापिलास्तु वते-श्रोत्रवृत्तिः शब्ददेशं गच्छति, सा शब्देन विक्रियत इति - तत्र श्रोत्रस्य व्यामिश्रत्वान्निकटदेशेनैव शब्देन तद्वृत्तिर्विक्रियते, न दूरदेशेनेत्यत्र को नियमः ? नियमाभावाच कान्यकुब्जप्रयुक्तो गोशब्दः गौरमूलकेऽपि श्रूयेत । अमूर्ता च श्रोत्रवृत्तिः प्रसरन्ती न मूतैः कुड्यादिभिरभिहन्तुं शक्यत इति व्यवहितस्यापि शब्दस्य श्रवणं स्यात् ॥
वायौ शब्दानुकूले च न तस्य श्रवणं भवेत् । गच्छन्त्याः प्रतिकूलो हि श्रोत्रवृत्तेः स मारुतः ॥ २३८॥
रेऽपि अनुवातं शब्दस्य श्रवणं यदृष्टं, प्रतिवातं च निकटेऽपि यदश्रवणं, तदस्मिन् पक्षे विपरीतं स्यात् ॥
वृत्तिवृत्तिमतो दो नास्तीतीन्द्रियवद्भवेत् । व्यापिका वृत्तिरित्येवं कथं सर्वत्र न श्रुतिः ॥ २३९ ॥
[जैनोक्तशब्दग्रहणप्रकारदूषणम्] आईतास्त्वादुः---सूक्ष्मैः शब्दपुद्गलैरारब्धशरीरः शब्दः स्वप्रभवभूमेः निष्क्रम्य प्रतिपुरुषं कर्णमूलमुपसर्पतीति--तदेतदतिसुभाषितम्
वर्णस्यावयवाः सूक्ष्माः सन्ति केचन पुद्गलाः। तैर्वर्णोऽवयवी नाम जन्यते पश्य कौतुकम् ।। २४० ॥ तेषामदृश्यमानानां कीदृशो रचनाक्रमः। केन तत्सन्निवेशेन कः शब्द उपजायताम् ।। २४१ ॥
सा-श्रोत्रवृत्तिः। वृत्ते: विषयसमानाकारतापत्तिमेव प्रमाण मन्वते ते।' ज्यामिश्रत्वात्-सर्वसम्बन्द्वत्वात् । आकाशाप्यायनकृतैव हि वृत्तिः, आकाशश्च सर्वसम्बद्ध एव । गौरमूलकं-ग्रन्थकारग्रामनाम । शब्दानुकूलेशब्दग्रहणायानुकूले । 'उक्तमुपपादयति-- रेऽपीति । शब्दोत्पत्तिदेशात् पुरुषदेशाभिमुखतया वायौ आगच्छति शब्दस्य शीघ्रश्रवणं, विपरीते वैपरीत्य च दृश्यते। यदा च श्रोत्रवृत्ति: शब्ददेशं गच्छति, तदा श्रोत्रवृत्तेः तदमिमुखत्वात् ब्याहतिः, विलम्बश्च स्यादेव । ततश्च सर्व विपरीतं स्यात् ॥