________________
आह्निकम् ३] शब्दस्य द्रव्यत्वम्
535 अथावरणात्मककुड्यादिद्रव्यसंयोगरहितमाकाशं शन्दजन्मनि समवायिकारणमिष्यते, तदत्र प्रमाणं विशेषे वक्तव्यम् ।
तुल्यारम्भे च तीवेण मन्दस्य जननं कथम्? श्रूयते चान्तिकात्तीवः शब्दो मन्दस्तु दूरतः ॥ २३५ ॥ वीचीसन्तानतुल्यत्वमपि शब्देषु दुर्वचम् । मूर्तिमत्त्व क्रियायोगवेगादिरहितात्मसु ॥ २३६ ॥
[शब्दो द्रव्यमेव, न गुणः] • यदप्युच्यते-सजातीयजनकः शब्दः, गुणत्वात्, रूपादिवदिति--तदिदमसिद्धमसिद्धेन साध्यम्, गुणत्वस्यासिद्धत्वात् ॥ ___ न शब्दः पारतन्त्र्येण कदाचिदुपलभ्यते ।
द्रव्यस्थ इव रूपादिरतोऽस्य गुणता कुतः? ।। २३७ ।। अपि च
न शब्दान्तरारम्भकः शब्दो गुणत्वात् रूपवत् । शब्द नारभते शब्दः शब्दत्वाच्छोत्रशब्दवत् ॥
न संयोगविभागौ शब्दस्य जनकौ, संयोगविभागत्वात्, अन्यसंयोगविभागबदित्यादयः प्रतिहेतवोऽप्यत्र सुलभा इति यत्किञ्चिदेतत्॥
विशेषे-आकाशमान न कारणं, किन्तु आकाशविशेष इत्यत्र । तुल्यारम्भ इति । कारणतुल्येन हि कार्येण भाव्यम् । क्रियायोगः-क्रियावत्त्वम् ॥
पारतन्त्र्येणेति। परतन्त्रैकस्वभावत्वं गुणलक्षणम् । रूपवदिति । भारम्भवाद एव हि कारणगतरूपं कार्यगतरूपजनकम् । मीमांसकास्तु अवस्थाभेदवादिनः। 'तन्तुगुणा एव हि तन्तुषु पटीभूतेषु पटगुणतां भजन्ते' (न्या-1-1-1-6-103) इति युक्तम् । अतः रूपमपि न रूपान्तरजनकम् । तथा च दृष्टान्त एवासिद्धः। प्रत्यनुमानमप्याह-शब्दमिति। 'शब्द नारभते शब्द: शब्दत्वात् अन्त्यशब्दवत्' (1-1-6-106) इति वार्तिकसदृशं वाक्यमिदम् । अन्यसंयोगविभागवत्-तन्त्वादिसंयोगविभागवत् ॥