________________
534 मीमांसकैः शन्दनित्यत्वसाधनम्
न्यायमञ्जरी [नैय्यायिकवैशेषिकमतयोः शब्दग्रहणप्रकारानुवादः] तत्र भवतां, 'वैशेषिकाणां च 'शब्दस्य श्रवणे तावदेषा तुल्यैव कल्पना। 'संयोगाद्वा विभागाद्वा शब्द उपजायते। जातश्चासौ तिर्यगूर्वमधश्च सर्वतोदिक्कानि कदम्बगोलकाकारेण सजातीयनिकटदेशानि शम्दान्तराण्यारभते, तान्यपि तथेत्येवं वीचीसन्तानवृत्त्यारम्भप्रबन्धप्राप्तोऽन्त्यः श्रोत्राकाशजन्मा शब्दः तत्समवेतस्तेनैव गृह्यते इति ॥
[वीचीतरङ्गन्यायेन शब्दात् शब्दान्तरोत्पत्तिरित्यस्य निरास:] तदियं तावदतिघर्घरा कल्पना ॥ शब्दः शब्दान्तरं सूत इति तावदलौकिकम् । कार्यकारणभावो हि न दृष्टस्तेषु बुद्धिबत् ॥ २३१॥ जन्यन्तेऽनन्तरे देशे 'शब्दाः स्वसदृशाश्च ते । तिर्यगूर्ध्वमधश्चेति केयं 'वः श्रद्दधानता ? ।। २३२ ।। शब्दान्तराणि कुर्वन्तः कथं च विरमन्ति ते ? ' न हि वेगक्षयस्तेषां मरुतामिव कल्प्यते ॥ २३३ ।। कुड्यादिव्यवधाने च शब्दस्या करणं कथम् ?
व्योम्नः सर्वगतत्वाद्धि कुड्यमध्ये व्यवस्थितिः ।। २३४ ॥ · भवतामिति । 'आदिमत्त्वादैन्द्रियकत्वात्' (न्या.स. 2-2-13) इत्यादिसूत्रभाष्यवार्तिकादिष्विदमुपपादितम् । वृत्त्यारम्भः-- विस्तरारम्भः। तत्समवेतन-श्रोत्रसमवेतेन ॥
‘निरस्तश्चायं शब्दसन्तानः ज्ञानसन्ताननिराकरणन्यायेन' (न्या. र. 1-1-6-95) इत्युक्तं स्मरबाह-बुद्धिवदिति। मरुतामिवेति । वायोव्यत्वेन वेगादिकमुपपद्यते, न तु गुणस्य शब्दस्य ॥
संयोगात्-ख.
'शब्दै:-ख.
वा-ख.
'वैशेषिकाणां-ख. कल्पते-ख. वरण--ख.