________________
आह्निकम् ३]
तीव्रत्वमन्दत्वादीनां ध्वनिधर्मत्वम्
533
तीव्रत्वमन्दत्वादयः बुद्धिकल्पिता एव वा]
यहा न तीव्रमन्दादेः वर्णधर्मतया ग्रहः। बुद्धिरेव तथोदेति व्यञ्जकानुविधायिनी ।.२२७ ।। तावन्त एव ते वर्णाः प्रचयापचयस्पृशः । एवं चाभिभवोऽप्येषां स्वतो नास्ति परस्परम् ॥ २२८ ॥ मरुद्भिरभिभूयन्ते मारुता इव दुर्बलाः। तेजोभिरिव दीप्तांशोः दिवा दीपप्रभादयः ॥ २२१ ॥
[श्रोत्र-शब्दसंस्कारपक्षोऽप्यदुष्टः ]
द्वयसंस्कारपक्षोऽप्येवं समाहितो भवति, उभयेषामपि दोषाणा मुत्सारणात् । तस्मात् प्रत्यभिज्ञाप्रत्ययप्रभावसिद्धनित्यत्वस्य शब्दस्य अभिव्यक्तिरेव साधीयसी ॥
- [शब्दनित्यत्वानित्यत्वपक्षयोः गौरवलाधवविमर्शः] इदं चालोच्यतामार्याः! कार्याभिव्यङ्ग्यपक्षयोः । शब्दस्य ग्रहणे गुर्वी लध्वी वा कुत्र कल्पना? ॥ २३० ॥
तथा हि भवन्तः, वैशेषिकाः, सांख्याः; जैनाः, सौगताश्च कार्यशब्दवादिनः। चार्वाकास्तु वराकाः, कस्यैवंविधासु गोष्ठीषु स्मृतिपथमुपयान्ति!
'संस्कारानुकृतेः सोऽपि महत्त्वाद्यवबुध्यते ' (श्लो. वा. 1-1-5. स्फोट. 40) 'यो हि वैशेषिक: गकारादिषु व्यक्ति-जातिभेदमिच्छति, सोऽपि शब्देषु महत्त्वाल्पत्वयोः गुणतां नाभ्युपैति, निर्गुणत्वात् गुणानां, शब्दस्य च गुणत्वात् । अतः यथा तत्राविद्यमानमेव महत्वादिकं ध्वनिसंस्कारानुसारिण्या बुध्या गृह्यते, तथा द्रुतत्वादिकमपि ' इत्यादिवार्तिकव्याख्यानयोरुक्तं स्मरन्नाह-यद्वेत्यादि ।
वार्तिके (1-1-8-88) प्रतिपादितं विचारमुपक्षिपति-इद मिति । पक्षद्वये प्रतिपादितयोः शब्दग्रहणप्रकारयोः कुत्र कल्पनालाघवगौरवे?