________________
532
मीमांसकैः शब्दनित्यत्वसाधनम्
न्यायमार्ग
[शब्दसंस्कारपक्षोऽपि साधीयान् ] मथ वा विषयसंस्कारपक्षो भवतु', तथाऽपि नातिप्रसङ्गः । नियतदेशस्यैव तत्र संस्कारात्। न चास्य भागशः संस्कारः निरवयवत्वात् । तथाऽपि जातिवदस्य ग्रहणनियमो भविष्यति । तथाच भवतामेव पक्षे
यथा सर्वगता जाति: पिण्डदेशैव गृह्यते। न च कायंगृहीताऽपि पिण्डेऽन्यत्र न दृश्यते ॥ २२४ ॥ तथा सर्वगतः शब्दः नाद देशेषु गृह्यते । कात्स्न्ये न च गृहीतोऽपि पुनरन्यत्र गृह्यते ॥ २२५॥ पिण्डोऽभिव्यञ्जको जातेः शब्दस्य व्यञ्जको ध्वनिः । आश्रितानाश्रितत्वादि विशेषः क्वोपयुज्यते ॥ २२६॥
[तीव्रत्वमन्दत्वादयः ध्वनिधर्माः, न शब्दधर्माः] सर्वगतत्वनिरवयत्वाविशेषात तीव्रमन्दत्वादयश्च ध्वनिधर्मा अपि भवन्तः शब्दवृत्तितयाऽवभान्ति । यथा स्थूलत्वकृशत्वादयः पिण्डधर्मा अपि जातिवृत्तित्वेन क्वचित गृह्यन्तो दृश्यन्ते', अगृहीतशाबलेयादिविशेषस्य 'कृशा गावः' इत्यादिप्रतिभास. दर्शनात् ॥
पिण्डदेशः-बहुव्रीहिसमासः। एकस्मिन् घटे कात्स्न्येन गृहीतमपि घटत्वं घटान्तरेऽप्युपलभ्यत एव। पटादौ तु न गृह्यत एव । एवमनुभवानुरोधेन प्रकृतेऽपि ग्रहणनियमादिः। नाददेशेष्विति । तथैव यत्समीपस्थैः नादैः स्याद्यस्य संस्कृतिः। तैरेव श्रयते शब्दः' 'नादा हि प्रादेशिकाः स्वदेशावच्छिन्नमेव तस्य विभोरपि संस्कारं कुर्वन्ति' इति वार्तिकं (1-16-85) व्याख्या च । आश्रितेत्यादि । जातिः किञ्चिदाश्रिता, शब्दस्तु स्वतन्त्रः इति वैलक्षण्यं ग्रहणविषये न किञ्चित्करम् ॥
सर्वगतत्वादिकं शब्द इव ध्वनावप्यङ्गीक्रियते । एवमोपाधिकग्रहणे दृष्टान्तमाह-यथेति। गोत्वपुरस्कारेण व्यवहारोपपादनाय --अगृहीतेत्यादि।
। संस्कारपक्षो भवतु-ख. (पूर्वपुटात्) - शेषेषु-ख. . गृमन्ते-ख.