________________
'आह्निकम् ३] शब्दन्त्यित्त्रेऽपि ग्रहणनियमसमर्थनम् 531
क्वचित्पावकसंपर्कादांशुस्पर्शतः क्वचित् ।
क्वचित्सलिलसंसेकात् गन्धोऽभिव्यज्यते भुवः ॥ २२३ ॥ न च स्तिमितपवनापनोदनमात्रं करणस्य संस्कार इष्यते, यः सर्वसाधारणः स्यात् । किन्तु अन्य एवं नियतः प्रतिविषयं योग्यतालक्षणः ॥
[श्रोत्रस्याकाशरूपत्वेऽपि ग्रहणनियमः] यत्पुनरभ्यधायि-नभसि श्रोत्रेऽभ्युपगम्यमाने सर्वप्राणिनामेकमेव' श्रोत्रं भवेदिति-तदप्यसाधु-धर्माधर्मयोर्नियामकत्वात् । आकाशस्यापि घटाकाशवदन्यावच्छेदोपपत्तः धर्माधर्मनिबन्धन एव बधिरेतरविभागः ॥
[ मीमांसकानां आकाश एव न श्रोत्रम् ] अपि च भवतामेवैष दोषः, येषामाकाशमेव श्रोत्रमित्यभ्युपगमनियमः। मीमांसकानां तु नावश्यमाकाशमेव श्रोत्रम, कार्यार्थापत्तिकल्पितं तु किमपि करणमात्रं प्रतिपुरुषनियतं श्रोत्रमिति नातिप्रसङ्गः। तथा च भर्तृमित्रः पवनजनित संस्कारमेव श्रोत्रं मन्यते ॥ .
क्वचिदिति। सर्जरसादौ पावकसंयोगात् , मरीच्यादा सूर्यमरीचिसम्बन्धात् , उशीरादौ सालेलसंसेकाच्च गन्धामिन्यक्ति: दृश्यते। अन्यःकार्यैकोन्नेय: ॥
धर्माधौं किं कुरुतः ? इत्यत्र, तत्तत्पुरुषप्रतिनियतं कर्णशष्कुल्याद्युपाधिमुत्पाद्य विषयव्यवस्थां कुरुत इत्याह - आकाशेति ॥ . नावश्यमिति । 'नावश्यं श्रोत्रमाकाशमस्मामिश्चाभ्युपेयते' (1-16-66) तेनाकाशैकदेशो वा यद्वा वस्त्वन्तरं भवेत् । कार्यार्थापत्तिगम्यं नः श्रोत्रं प्रतिनरं स्थितम् ' (68) इति वार्तिकम् । किमपीति। चक्षुरादिवदतिरिक्तमेवेत्यर्थः । भर्तृमित्र इति । 'केचित्तु पण्डितम्मन्याः' (श्लो. वा. 1-1-6-131) इति वार्तिकन्याख्याने न्यायरत्नाकरे 'अत्र भर्तृमित्रो वदति, ध्वनिजन्यः संस्कारः श्रोत्रमिति' इत्युक्तम् ॥ 'प्राणिनामेव-क. संस्कारपक्षो भवतु-ख. (अनन्तरपुटानुवति).
34*