________________
530
मीमांसकः शब्दनित्यत्वसाधनम्
[तीव्रत्वमन्दत्वादे: वायुधर्मत्वासंभवः ]
पवनधर्मो वा तीव्रादिर्भवन् कथं श्रोत्रेण गृह्येत ? सावयवे हि वस्तुनि सकलविशेषग्रहणाग्रहणसंभवात् तदपेक्षया प्रतीतिभेदो भवेत् । इह तु निरवयवे शब्दे न तथोपपद्यते इति । तस्मात् कृतकपक्ष एव श्रेयानिति ॥
[ न्यायमभरी
[शब्दनित्यत्वेऽपि श्रोत्रसंस्कारपक्षः युक्त एव ]
अत्रोच्यते - करणसंस्कारपक्ष एव तावदस्तु । तच्च करणं किञ्चिदेव मरुद्भिरुपा हितसंस्कारं कञ्चिदेव शब्दं गृह्णाति ॥
यथा तावादिसंयोग विभागा भवतां मते । उत्पादकतयेष्यन्ते केचिद्वर्णस्य कस्यचित् ॥ २२० ॥ तथा तद्वायुसंयोगविभावाः केचिदेव नः' । कस्यचिद्ग्रहणे 'शक्ताः श्रोत्रं कुर्वन्ति संस्कृतम् ॥ २२९ ॥ यथा च तेषामुत्पत्तौ सामर्थ्य नियमस्तव । तथैवैषामभिव्यक्तौ सामर्थ्यनियमो मम ॥ २२२ ॥
व्यञ्जकानां नियमो न दृष्ट इति चेत्-क एवमाह सहस्राक्षः ? तथा हि- पृथिव्यामेव वर्तमानो गन्धः समानदेशो भवति, समानेन्द्रियग्राह्यश्च वाणैकविषयत्वात् ।
तस्य च नियतव्य
अक' व्यङ्गयता दृश्यत एव ॥
कथमिति । पवनधर्मा हि त्वचा गृह्येरन्, न श्रोत्रेण । प्रतीतिभेदःकतिपय - यावदवयग्रहणानुरोधेन तीव्रमन्दत्वादिभेदप्रत्ययः ॥
तावादीति । इचुयशानां तालव्यत्वेऽपि इकारोच्चारणाय प्रवृत्तः न हि चकार मुच्चारयति । अतः स्थानसाम्यं स्थूलदृष्ट्या, भेदस्त्वस्त्येव सूक्ष्म: । तथा कृतेऽपि ॥
'गृहे दधिघटीं द्रष्टुं' इत्यादि समाधत्ते - व्यञ्जकानामित्यादि । समानेन्द्रियेति । सर्वेषामपि हि प्रागेन्द्रयं पार्थिवमेव, गन्धश्च पृथिवीनिष्ठः । अथापि ग्रहणनियमोऽस्त्येव ॥
1 विभागाः केचिदेव नः - ख.
2 शक्तं- ख.
3 नियतस्तद्व्यञ्जक - ख.