________________
'आह्निकम् ३]
शम्दानां नित्यत्वे तीव्रत्वमन्दत्वाचसंभवाक्षेपः
529
[शब्दसंस्कारपक्षस्याप्ययुक्तता विषये तु संस्क्रियमाणे तस्यानवयवस्य व्यापिनश्च संस्कृतत्वात् सर्वत्र श्रवणमिति मद्रष्वभिव्यक्तो गोशब्दः कश्मीरेष्वपि श्रूयेत । न हि तस्याधारद्वारकः संस्कारः, आकाशवदनाश्रितत्वात्। आकाशाश्रितत्वपक्षेऽपि तदेकत्वात्। नापि भागशः संस्क्रियते गोशब्दः, तस्य निरवयत्वात् । उक्तं हि (श्लो-वा-1-1-5-स्फोट-10)
_ 'अल्पीयसा प्रयत्नेन शब्द मुञ्चरितं मतिः । . यदि वा नैव गृह्णाति वर्ण या सकलं स्फुटम' इति॥
[श्रोत्र-शब्दसंस्कारपक्षस्याप्यसंभव:] उभयसंस्कारपक्षे तु दोषद्वयस्याप्यनतिवृत्तिः-सर्वेषां ग्रहणं, सर्वत्र श्रवणमिति । न च समानदेशानां समानेन्द्रियग्राह्याणां च भावानां प्रतिनियतव्यञ्जकव्यङ्गयत्वमुपलब्धम् ॥
गृहे दधिघटी द्रष्टुं आनीतो गृहमेधिना। . अपूपानपि तद्देशान् प्रकाशयति दीपकः ॥ २१९ ॥
तस्मात् कृतकपक्ष एव नियतदेशं शब्दस्य ग्रहणं परिकल्पते, नाभिव्यक्तिपक्ष इति ॥. - शब्दनित्यत्वपक्षे तीव्रमन्दविभागाद्यसंभवश्च] : अपि च-अभिव्यक्तिपक्षे तीव्रमन्दविभागः, अभिभवश्व शब्दस्य शब्दान्तरेण न प्राप्नोति । न हि शब्दस्तीवो मन्दो वा कश्चित् , स्वतस्तस्य भेदाभावात्। संस्कारस्य च तदभिव्यक्तिहेतोः न काचन तीव्रता, मन्दता वा; यदनुसारेण विषये तथा बुद्धिः स्यात् ॥
सर्वत्रेति । वार्तिकन्यायरत्नाकरयो: (1-1-6-51-64) शब्दसंस्कारपक्षेऽपि सर्वैः ग्रहणमप्युक्तम् ॥
स्वत इति। शब्दो हि नित्यः, एकः, विभुश्चेति तन्मतम् ।।
मुच्चारित-ख.
NYAYAMANJARI