________________
528
मीमांसकैः शब्दनित्यत्वसाधनम्
[न्यायमरी
वायुवृत्तयो वा संयोगविभागाः । ते हि शब्दस्य व्यञ्जका इष्यन्ते। तैश्च करणं वा संस्क्रियते ? कर्म वा? द्वयं वा? सर्वथा च प्रमादः ॥
[अमिव्यञ्जकसामग्रया श्रोत्रसंस्कारासंभव:] करणे संस्कृते तावत् सर्वशब्दश्रुतिर्भवेत् ।
गकारायैव संस्कार इत्येष नियमः कुतः? ॥२१६ ॥ अपिच-स्तिमितसमीरणापसरणमेव करणस्य संस्कारः । स चायं तद्देशव्यवस्थितसकलतद्विषयसाधारण एव ॥
यथा जवनिकाप्रायप्राप्तप्रसरमीक्षणम् । रङ्गभूमिषु तद्देशमशेषं वस्तु पश्यति ।।२१७॥ तथा प्रसरसंरोधिसमीरोत्सारणे सति। श्रोत्रं तद्देशनिःशेषशब्दग्राहि भविष्यति ॥२१८ ॥
[श्रोत्रसंस्कारपक्षे श्रोत्रनियमश्वं दुर्वचः] आकाशं च श्रोत्रमाचक्षते भवन्तः। तच्च विभु निरवयवं चेति क्वचिदेव तस्मिन् संस्कृते सति सर्वे च तदैव संस्कृतकरणाः संपन्ना इति सर्व एव शृणुयुः इति बधिरेतरव्यवस्था दुस्थिता ॥
विभागा: नैरन्तर्येण क्रियमाणा: शन्दमभिव्यञ्जयन्तः नादशब्दवाच्याः' (शा-मा1-1-17), 'वायवीया हि ध्वनयः अभिग्यञ्जकाः' (न्या-रा-1-1-6-41)। साधारणवायो: ध्वनिरूपत्वासंभवात् वायुवृत्तयो वेति। करणं वेत्यादि । विद्यमान एव शब्दः, एतावताऽगृह्यमाणोऽपि इदनीमेव गृह्यत इत्यनुभवसिद्धम् । तत्र एतावता कालेन तादृशशब्दग्रहणाशक्तं श्रोत्रं, इदानीमेव व्यञ्जकसामग्रीप्रभावात् संस्कृतं सत् इदानीं शब्दं ग्रहीतुं समर्थमभूदित्युच्यते ?. उत इन्द्रियं तथैवावतिष्ठते, किन्तु शब्द एव आरोपितातिशयः इदानीं गृह्यते ? उत श्रोत्रे, शब्दे च अतिशयः प्रापय्यते ?
सर्वशब्देति। यदा च श्रोत्रं संस्कृतं, तदा तेन गकार एव गृयेत, न तु चकार इति कथं नियमः? न हि घटग्रहणायोन्मीलितं चक्षुः पटं न गृह्णीयात् ! ननु संस्कार एव प्रत्यक्षरं भिन्नः स्यादित्यत्र, तथा न वक्तुं शक्यमित्याह - अपि चेति। स्तिमितः -- निश्चलः-प्रतिबन्धकीभूत इति यावत् (न्या-र. 1-1-6-123)। इदमेवोपपादयति-यथेति ॥