________________
527
आह्निकम् ३] शब्दानां नित्यत्वेऽपि ग्रहणनियमाक्षेपः
जीवति त्वन्मतेऽप्येष शब्दस्त्रिचतुरान् क्षणान् । प्रत्यभिज्ञा च कालेन तावता न न सिद्धयति ॥ २११ ॥ एकक्षणायुषि त्वस्मिन् प्रतीतिरतिदुर्लभा।
न खल्वजनकं किञ्चित् वस्तु ज्ञानेन गृह्यते ॥२१२॥ इति क्षणभङ्गभङ्गे (९ आह्निके) वक्ष्यते ॥
[ग्रहणात्पूर्वमपि शब्दा वर्तन्त एव] 'अपि च
यथा निशीथे रोलम्बश्यामलाम्बुदडम्बरे। प्रत्यभिज्ञायते किश्चित् अचिरद्युतिधामभिः । २१३ ॥ तथाऽविरतसंयोगविभागक्रमजन्मभिः। प्रत्यभिज्ञायते शब्दः क्षणिकैरपि मारुतैः ॥ २१४ ॥ • [शब्दनित्यत्वे तस्य ग्रहणनियमासंभवाक्षेपः।
अत्राह (श्लो-वा-1-1-6-51)-मारुतैरित्युपोद्धातेन साधु स्मृतम्। तिष्ठतु तावत्प्रत्यभिज्ञानम् ! प्रथममेव शब्दस्य यन्नियतग्रहणं, तदभिव्यक्तिपक्षे दुर्घटम् ॥
नित्यत्वात् व्यापकत्वाच्च सर्वे सर्वत्र सर्वदा। शन्दाः सन्तीति भेदेन ग्रहणे किं नियामकम् ? ॥२१५॥
ध्वनयो हि नाम संयोगविभागविशेषिता वायवः, बाधकाभावाच्च वस्त्वैक्यमेव विषयः । उक्तप्रत्यमिज्ञायाः क्वचित् त्वयाऽपि वस्स्वैक्यालम्बनत्वमङ्गीकार्यमित्याह--जीवतीति। त्रिचतुरानिति । अयं विषय: अग्रे सिद्धान्ते स्पष्टीभविष्यति । ननु क्षणिकवादे साजात्यालम्बनस्वमेव वक्तमित्यत्राह-एकक्षणेति। ज्ञानक्षणे विषयस्यैवाभावादिति हेतुः ॥
शब्दस्य ग्रहणप्रकार विचारयिषुः, तदुपक्षेपार्थ कादाचित्केनापि व्यञ्जकेन पूर्वतनस्यैव व्यञ्जनं 'मेधान्धकारशर्वां विद्युजनितदृष्टिवत्' (श्लो. वा. 1-1-6-41) इत्युक्तमुपपादयति-अपि चेत्यादिना। प्रत्यभिज्ञायतेविद्यमान एव ज्ञायते-अमिन्यज्यत इति यावत् ॥
भेदेन कालदेशपुरुषभेदेन मिन्नतया। ध्वनयः-नादाः। 'संयोग