________________
526
[ न्यायम
मीमांसकैः शब्दनित्यत्वसाधनम्
[प्रत्यभिज्ञाबलादपि शब्दनित्यत्वसिद्धिः ]
तदनेन प्रकारेण प्रत्यभिज्ञानमुच्यते । प्रमाणं शब्दनित्यत्वे सकलश्रोतृसाक्षिकम् ॥ २०७ ॥ तथा ह्यस्ति स एवायं गोशब्द इति वेदनम् । श्रौत्रं करणकालुष्यबाधसन्देहवर्जितम् ॥ २०८ ॥
[' सोऽयं गकार: ' इत्यादिप्रत्यभिज्ञाया अनन्यथासिद्धत्वम् ] श्रोत्रेन्द्रियव्यापारान्वयव्यतिरेकानुविधानात् श्रौत्रमिदं विज्ञानम् । न चैतजनकस्य करणस्य किमपि दौर्बल्यमुपलभ्यते । न च किंखिदिति कोटिद्वय संस्पर्शितया इदं विज्ञानमुपजायते । न च नैतदेवमिति प्रत्ययान्तरमस्मिन् बाधकमुत्पश्यामः । इदानीं तनास्तित्वप्रमेयाधिक्यग्रहणाश्चदमनधिगतार्थग्राह्यपि भवितुमर्हति । भवन्मते च गृहतग्राहित्वेऽपि प्रत्यभिज्ञायाः प्रामाण्यमिष्यते। न हि तदप्रामाण्यं वक्तुं शक्यते ; शाक्यैरिव भवद्भिः क्षणिक पदार्थानभ्युपगमात् ॥
[' सोऽयं गकार: ' इति प्रत्यभिज्ञा न साजात्यमूला ] न सादृश्यनिमित्तत्वं वक्तुं तस्याश्च युज्यते । सामान्यविषयत्वं वा यस्यापि निषेधनात् ॥ २०९ ॥ कैश्चित्तिरोहिते भावादित्यप्रामाण्यमुच्यते । तदसत्तत्प्रतीत्यैव तिरोधाननिषेधनात् ॥ २१० ॥
ननु अनधिगतार्थगन्तृत्वरूपप्रामाण्यवादिनस्तव कथं प्रत्यभिज्ञाप्रामाण्यंमित्यत्राह - इदानींतनेति । वर्तमानकालसम्बन्ध इति यावत् । तदुक्तम् 'कालश्चैको विभुर्नित्यः प्रविभक्तोऽपि गम्यते । वर्णवत्, सर्वभावेषु व्यज्यते केन चिक्कचित् ' ( श्लो. वा. 1-1-6-303 ) इति ॥
द्वयस्य - सादृश्यस्य, जातेश्च । निषेधनात्, अनुपदमेवेति शेषः । तिरोहिते - विनष्ट इति भावः । ज्ञानकर्मणोः द्वित्रक्षणावस्थानेऽपि ज्ञानक्रियान्तरोत्पत्तावपि प्रत्यभिज्ञा दृश्यत इत्यर्थः । ' बुद्धिकर्मणी भपि प्रत्यभिज्ञायेते' (शा. भा. १-१ - ६ ) इत्याद्यत्रानुसन्धेयम् । तत्प्रतीत्यैव - तादृशप्रत्यभिज्ञयैव । अयं भावः - प्रत्यभिज्ञा हि वस्त्वैक्यविषयिणी जात्यैक्यविषयिणी वाश्व । सोऽयं गकारः इत्यादौ जात्याद्यनालम्बनतायाः उक्तत्वात्,