________________
आह्निकम् ३] शब्दनित्यत्वहेतवः
525 पटे तन्त्वादय इव वर्णे न क्वचिदवयवा उपलभ्यन्ते। न चानुमीयन्ते, लिङ्गाभावात् ॥
अश्रयविनाशात् शब्दविनाशासंभवः] नाप्यश्रयविनाशाद्विनाशः, शब्दस्य आत्मादिवदनाश्रितत्वात् । आकाशाश्रितपक्षे वा तन्नित्यत्वात् । 'न चान्यः कश्चन शब्दनाशस्य
हेतुरस्ति
।
क्षयो यथोपभोगेन शस्त्रादिच्छेदनेन वा। संभाव्यते पटादीनां नैवं शब्दस्य कर्हि चित् ॥ २०४॥ तस्मात्तिरोहितोऽप्यास्ते, यदि शब्दः क्षणान्तरम् । मृत्योर्मुखा दपक्रान्तः पुनः केनैष' हन्यते? ॥ २०५॥
.. [सङ्ख्याभावाच्च शब्दः नित्यः] इतश्च नित्यः शब्दः-सङ्ख्याभावात्' (जै. स्. 1-1-20)। अष्टकृत्वो गोशब्द उच्चारित इति वदन्ति, न त्वष्टौ गोशब्दा इति (शा. भा. 1-1-20)। तेनैकत्वमवगम्यते । योऽयं क्रियाभ्यावृत्तिगणने विहितः कृत्वसुच्प्रत्ययः, स क्रियावतामभेदे भवति । तेनोच्चारणावृत्तिमात्रम् । तदुक्कम (श्लो. वा. 1-1-6-367)
‘क्रियावता मभेदे हि क्रियाऽऽवृत्तिषु कृत्वसुच । तत्प्रयोगात् ध्रुवं तस्य शब्दस्यावतते क्रिया' इति ॥ 'क्रियाभ्यावृत्तिसत्तायामभेदे च क्रियावताम्'
संख्याभिधायिनः शब्दात् कृत्वसुच्प्रत्ययं विदुः ॥ २०६॥ पटे तन्त्वादय इवेति । पार्थिवशरीरे जलादिरिवेति अनारम्भकावयवदृष्टान्तोऽप्यूह्यः । अयमंशः ८ आह्निके स्पष्टीभविष्यति ॥
मीमांसकमते शब्दस्य निरवयवद्रव्यत्वात्-आत्मादिवदित्युक्तम् ॥ तस्मात्-उक्तहेतोः। अयमाशय इत्यादिना टीकायामनुपदमिदं विवृतम् ॥
क्रियावतामिति। 'दशकृत्वः देवदत्त मागतः' इत्यादाविदं दृष्टम् । 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ' (पा. सू. 5-4-17)॥
1 न चान्यः-ख. तस्मात्तिरोहितो-ख. दु:खा-ख. 5 प्रयुक्त-ख. मभेदो-ख. 'संख्यावताम्-ख.
4 केनैव-क.