________________
524
मीमांसकै: शब्दनित्यत्वसाधमम्
[न्यायमञ्जरी तदिदमुच्यते-शब्दो धर्मी, नित्य इति साध्यो धर्मः, सम्बन्धग्रहणसापेक्षार्थप्रतिपादकत्वात् , धूमादिजातिवत्। तदिदमुक्तं 'नित्यत्वं तु स्यादर्शनस्य परार्थत्वात्' (जै. सू. 1-1-18) इति । एवं सम्बन्धग्रहणात्प्रभृति आर्थप्रतिपत्तेरवस्थितस्य विनाशहेत्वभावादात्मादिवन्नित्यत्वम् ॥
[निरवयवत्वात् शब्दः न नश्यति न ह्ययमवयवविनाशानश्यति ब्दः, निरवयवत्वात् । तदेव कथमिति चेत् - उच्यते
स्वल्पेनापि प्रयत्नेन यदि वर्णः प्रयुज्यते ।
यदि वा नानुभूयेत, शकलो नानुभूयते ॥ २०३॥ सावयवे हि वस्तुनि द्विधा अवयवा दृश्यन्ते, आरब्धकार्याश्चानारब्धकार्याश्चेति । इह पुनरारब्धकार्या . 'अनारब्धकार्या वा
नित्यत्वमिति । शब्दस्येति शेषः। 'दर्शनं- उच्चारणं ; तत् परार्थ --परं अर्थ प्रत्याययितुम् । उच्चरितमात्रे हि विनष्टे शब्दे न चान्योऽन्यान् अर्थ प्रत्याययितु. शक्नुयात् ' इति शाबरं भाष्यम् । अत्र 'नित्यस्तु' इति भाष्यादिपाठः। ननु तर्हि शब्दस्यार्थबोधनपर्यन्तमवस्थानेनाप्यलं, कुतो नित्यत्वम् ? इत्यत्राह-एवमिति । सम्बन्धग्रहणात् प्रभृतीति। अयमाशय:शक्तिग्रहणकाले यः गवादिशब्दः श्रुतः स एव कालान्तरे. गवादिबोधं जनयितुं शक्तः, न त्वन्यः, भगृहीतशक्तिकत्वात् । गत्वादिजातीनां च निरासात् न जातिद्वारा सर्वेषु गवादिशब्देषु पूर्वमेव शक्तिप्रहसंभवः। अतश्च बोधपर्यन्तमपि स एव शब्दो वर्तत इत्यङ्गीकार्यम् । शक्तिग्रहणकाले श्रुतस्य, मध्यकाले अश्रयमाणस्यापि गवादिशब्दस्य बोधकाले पुन: श्रवणपर्यन्तं अवस्थानं सिद्धमेव। तेन च भश्रयमाणा अपि शब्दाः सदा वर्तन्त एव, तदा तदा तूचारणादमिव्यक्तिरेवेत्यवशादङ्गीकर्तव्यमिति शब्दनित्यत्वसिद्धिः ॥
नानुभूयेत। ‘यावता हि प्रयत्नेन एको घटो निष्पाद्यः, तावति प्रयत्ने अकृते न हि घटनिष्पत्तिः, दर्शन वा उपलभ्यते। ननु सर्वथाऽनुपलब्धि: नापादयितुं शक्या, स्वल्पस्य प्रयत्नस्य कृतत्वादित्यत्राह-शकल इति। अक्षरैकदेशः इत्यर्थः।
वा-क.