________________
आह्निकम् ३] अत्वादिजातिनिरास:
523 [अकारयोः ध्वनिभेदादेवार्थभेद:] कथं तर्हि शब्दभेदाभावे भिन्ने अर्थप्रतिपत्ती--अरण्य आरण्यमिति; ध्वनिकृते एव ते भविष्यतः। अशब्दधर्मस्य दीर्घत्वादे कथमर्थप्रतीत्यङ्गत्वमिति चेत् ; तुरगवेगवद्भविष्यति ॥
यथा तुरगदेहस्थो वेगः पुंसोऽर्थसिद्धये। . परधर्मोऽपि दीर्घादिरेवं तस्योपकारकः ॥ २०० ॥
[अत्वादिजातिनिरासः] ___इतश्चैतदकारसामान्यमनुपपन्नम्। अत्वं हि न दीर्घप्लतयोरेनुगतं भवति, 'आत्वं न ह्रस्वकृतयोः, आत्वं' न ह्रस्वदीर्घयोरिति । तस्मादेकत्वाद्वर्णानां नावान्तरजातयः संभवन्ति। शब्दत्वं तु नियतार्थप्रतिपत्तौ व्यभिचारीत्यतो नात्र धूमादिन्यायः॥
[शब्दादर्थबोधान्यथाऽनुपपत्त्या शब्दनित्यत्वसाधनम् ] तेनार्थप्रत्ययः शब्दादन्यथा नोपपद्यते । न चेन्नित्यत्वमित्यस्मिन् अर्थापत्तेः प्रमाणता ॥ २०१॥ [अर्थापत्तेरनुमानरूपत्वे, अनुमानेन शब्दनित्यत्वसिद्धिः]
अनुमानादन्यथात्वमर्थापत्तेन दृश्यते।
'तेना'नुमानमप्येतत्प्रयोक्तुं न न शक्यते ॥ २०२॥ ननु यदि हस्वदीर्घादिभेदः अकारे नास्ति, तर्हि अरण्य-भारण्यशब्दयो: कथं वाच्यभेद: १ ताभ्यां बोधभेदो वा इति शङ्कते-कथमिति । परधर्मः-- ध्वनिधर्मः॥ . अत्वं-हस्वगतम्। आत्वं-बीगतम् । आत्वं-प्लुतगतम् । नात्र जातिभेदः, एकस्यैव अकारस्य अष्टादशभेदवर्णनात् । तस्मात्हस्वदीर्घादिभेद: ध्वनिकृत एव, न जातिभेदकृत इति सिद्धिः। शब्दत्वमिति । यद्यपि शब्दस्वं जाति:, परन्तु तत् सर्वसाधारण इति न विलक्षणबोधोपयोगि ॥
तेनेति । शब्दस्य नित्यत्वं न चेत्, अन्यथा-प्रकारान्तरेण, गत्वादिसामान्यद्वारेण शब्दादर्थप्रत्ययः नोपपद्यते इत्यन्वयः ॥ ____ अस्व-ख. 2 ततोऽ-क.