________________
522
मीमांसकैः शब्दनित्यत्वसाधनम्
[ न्यायमश्री वर्णनीयः । सोऽयं गकारव्यक्तावेव कथं न वर्ण्यते - तस्या 'एवै-' कत्वादेकप्रत्ययः, भेदभ्रमस्तु व्यञ्जकाधीन इति । एवं हि कल्पना लघीयसी भवति । तस्मान्न नानागकारवृत्तिगत्वसामान्यं नाम किञ्चिदस्ति ॥
[ग्यजनानां ह्रस्वदीर्घ रूपाणां स्वरोपाधिकभेदवत् स्वरभेदोऽप्योपाधिक एव]
अपि च गोगुरुगेहादौ भिनाजुपश्लेषकारित एव व्यञ्जनेषु बुद्धिभेदः परोपाधिरवधार्यते । सोऽयमक्ष्वपि परोपाधिरेव भवितुमर्हति, वर्णाश्रितत्वात् व्यञ्जकभेदप्रत्ययवदिति । तस्मात् गत्ववत् अत्व सामान्यमपि नास्ति ||
,
[ अष्टादशविधस्वरभेदा औपाधिका एव ]
यत्पुनः अष्टादशभेदं अवर्णकुलमुच्यते- तदौपाधिकमेव : ह्रस्वदीर्घप्लुतसंवृतविवृतादिबुद्धीनां ध्वनिभेदानुविधायित्वात् ॥ विवृतः संवृतादन्यो 'न' गकाराद्वकारवत् । अपि त्वकार एवासौ प्रतिभाति यथा तथा ॥ १९९ ॥
तस्याः - गकारव्यक्तेः । तथा च जगत्येक एव गकारादिः, भेदस्व पाधिक एव ॥
अचू
गोगुरुगेहादाविति । ग गा गि गी इत्यादिष्वित्यर्थः । भिन्नाजुपश्लेषः - अ आ इ ई इत्यादिसम्बन्धः । अक्षु — अकोरादिस्वरेषु । शब्दस्य सुपि रूपम् । परोपाधिः -- उच्चारणभेदाधीनः । सः -- बुद्धिभेदः
1
अष्टादशभेदमिति । एकैकोऽपि ह्रस्वदीर्घप्लुतभेदेन त्रिविधः । सोऽपि हस्वादिः प्रत्येकं उदात्तानुदात्तस्वरितस्वरभेदेन भिन्नः । सोऽपि पुनः अनुनासिकाननुनासिकभेदेन भिन्नः । एवञ्च एक एव अकारः अनुनासिकोदात्त-' ह्रस्वरूपः, अननुनासिकोदात्तहस्वरूपः - इत्येवं क्रमेण अष्टादशविधः । संवृतविवृतेति । एक एव ह्रस्वः अकारः प्रयोगकाले संवृत इति, प्रक्रियायां विवृत इति च संज्ञाभेदं प्रतिपद्यत इति संप्रतिपन्नत्वात् दृष्टान्तत्वेनोपन्यासः । इदमेव स्पष्टीकरोति - विवृत इत्यादि ॥
1 एव-क. 2 मिन्नान्या - क. 3ना - क.