________________
आह्निकम् ३]
निबन्धन एव, न जातिकृतः । भेदप्रतिभासस्तु' व्यञ्जक' मेदाधीन इति कुतो जातिव्यक्तिव्यवहारः ?
गत्वादिजातिनिरास:
[गोत्वजाते: गत्वादेश्व वैलक्षण्यम् ]
गोत्वादिजातिनिराकरणेऽप्येष प्रकारः समान इति चेत्-नव्यक्तिभेदस्य सुस्पष्ट सिद्धत्वेन व्यञ्जकाद्युपाधिनिबन्धन' त्वानुपपत्तेः । परस्परविभक्तस्वरूपतया हि शाबलेयबाहुलेयपिण्डाः प्रत्यक्षमुपलभ्यन्ते । स्थिते च व्यक्तिभेदे सर्वत्र गौरिति तदभेदप्रत्ययस्थानन्यविषयत्वादिष्यत एव गोत्वजातिः । इह पुनः
कारव्यक्तयो भिन्नाः शाबलेयादिपिण्डवत् ।
क नाम भवता दृष्टाः येनासां जातिमिच्छसि ? ॥ १९५ ॥ शिशौ पठति वृद्धे वा स्त्रीजने वा शुकेऽपि वा । वक्तृभेदं प्रपद्यन्ते न 'वर्ण'व्यक्तिभिन्नताम् ॥ १९६ ॥ तथा च गर्गः पठति, माठरः पठतीत्युच्चारयितृभेद एव प्रतीयते, अमुं गविशेषमेष पठतीति नोच्चार्यमाणमेदः ॥
' व' प्रयोगेऽपि तस्यैवोच्चारणं पुनः । गङ्गागगनगर्गादौ न रूपान्तरदर्शनम् ॥ १९७ ॥ द्रुतादिभेदबोधोऽपि नादभेद निबन्धनः । न व्यक्ति मेद ' जनितः ' शाबलेयादि' बोधवत् ॥ १९८ ॥
1
[गत्वजात्यङ्गीकर्तृभिरपि द्रुतादिभेदात् न गादिभेदः वक्तुं शक्यः ] अभ्युपगतेऽपि त्वसामान्ये तस्य द्रुतादिमेदप्रतिभासे सत्यपि न भिन्नत्वमेषितव्यम् । औपाधिक एव तस्मिन् भेदप्रतिभासो
521
'शाबलेयबाहुले यशब्दौ कर्बुरनीलरूपवद्वाचको व्यक्तिभेदपरिचायकौ ॥ ननु उच्चारयितृभेदात् गादिभेदे, एकोश्च्चरितेषु गकारेषु भेदप्रतीति: कथमित्याशङ्कां उच्चारणभेदबोधनायैव उच्चारयितृभेद उक्त इति समाधत्ते - एकेत्यादि ॥
"
भासस्य - ख.
6
'कर्तृ - ख. ' मनिता - क.
2 भेदधी सुस्पष्ट - ख.
7
भेदवत् - ख.
3 खोपपत्तेः - ख.
4 वर्ण - क.