________________
520 मीमांसकैः शब्दनित्यत्वसाधनम्
न्यायमचरी ' सादृश्यजनितत्वे च मिथ्यैवार्थगतिर्भवेत् ।
धूमानुकारिनीहारजन्यज्वलनबुद्धिवत् ॥ १९१॥
तस्मात् सादृश्यनिबन्धनार्थप्रतीत्यनुपपत्तः गोशब्द एव स्थायीत्यभ्युपगमनीयम् ॥
[गकाराद्यनुगतं गोशब्दत्वादिसामान्यं तु नास्त्येव] ननु! यथा धूमव्यक्तिभेदेऽपि धूमत्वमतिमवलम्ब्य सम्बन्धग्रहणादिव्यवहारनिवहनिर्वहणं, एवमिह गकारादिवर्णव्यक्तिभेदेऽपि सामान्यनिबन्धनस्तन्निर्वाहः करिष्यत इति--
मैवं तत्र हि धूमत्वसामान्यं विद्यते ध्रुवम् । शब्दत्वं व्यभिचार्यत्र गोशब्दत्वं तु दुर्घटम् ॥ १९२ ॥ भिन्नरयुगपत्कालैरसंसृष्टैर्विनश्वरैः । वर्णैर्घटयितुं शक्यो गोशब्दावयवी कथम् ? ॥ १९३ ॥ अनारब्धे च गोशब्दे गोशब्दत्वं क्व वर्तताम् ? , पटत्वं नाम सामान्यं न हि तन्तुषु वर्तते ।। १९४ ॥
[गत्वादिजातिनिरासः ननु ! मा भूत् गोशब्दत्वं सामान्यं, भिन्नाकारगकारादिव्यक्ति'वृत्तिभिरेव वा' गत्वादिजातिभिः कार्य पूर्वोक्तमुपपद्यते-एतदपि नास्ति-गत्वादिजातीनामनुपपत्तः। भेदाभेदप्रत्ययप्रतिष्ठो हि व्यक्तिजातिप्रविभागव्यवहारः। इह चायमभेदप्रत्ययो वर्णैक्य
दुर्घट-तदा हि नीलधूमत्वमपि जातिः स्यात्। गोत्वं तु वस्तुगतं, न शब्दगतम् । ननु गोशब्दत्वं नाम नाखण्ड: धर्म:, किन्तु गकारायवयवसमुदायरूपं तदित्यत्राह-भिन्नैरित्यादि। गोशब्दावयवी--गोशब्द. रूपावयवी। अनारब्धे-निरवयवे ॥
मेदाभेदेति । भेदप्रत्ययप्रतिष्टो व्यक्तिव्यवहारः, अभेदप्रत्ययप्रतिष्टो जातिव्यवहारः। अभेदप्रत्यश्च यदा अन्यथासिद्धः, तदा न जातेः सिद्धिः ॥
1 वृत्तिभिरेव-ख.