________________
आह्निकम् ३] शब्दानां साजात्यात् शक्तिग्रहसंभवनिरासः 519 भूयोऽवयवसामान्ययोगरूपं सादृश्यं वर्णानामनवयवानामुपपद्यते । अभिनवस्य शब्दस्य स्वयमर्थवत्त्वानवधारणात् 'कथमयममुतः श्रोता प्रतिपद्येत' इति शङ्कमानो वक्ता कथं प्रयोगं कुर्यात् ?
[सादृश्यमूलकशक्तिग्रहणेऽतिप्रसङ्गश्च ____ अथ सोऽप्यर्थवत्सदृश मेव' प्रयुङ्क्ते, नार्थवन्तं ; तर्हि यत्सदृशमसौ प्रयुङ्क्ते तस्याप्यन्य सादृश्यादेवार्थवत्तेति जगत्सर्गकालकृतस्य मूलभूतस्यार्थवतः शब्दस्य 'स्मरणं स्यात्, तन्मूलत्वाद्यवहारस्य । न चैवमस्ति । न च ततःप्रभृत्यद्ययावत् सादृश्यमनुवर्तते ; 'तत्सादृश्य कल्पनायां मूलसादृश्यविनाशात् । विशेषतस्तु शब्दानाम् ॥
_ [वर्णेषु सादृश्यमेवातिप्रसक्तम्] भिन्नैर्वक्तमुखस्थानप्रयत्नकरणादिभिः। न निर्वहति सादृश्यं शब्दानां दूरवर्तिनाम् ॥ १९० ॥
अनवयवानामिति। मीमांसकानां तु वर्णा नित्याः, सिद्धान्ते तु गुणाः । जातिः खलु आकृतिव्यङ्गया। भाकृतिश्चावयवसंस्थानमेव । यद्यपि रूपत्वादि सामान्य रूपाद्याकृतिव्यङ्ग्यम् ; अतश्च निरवयवेऽपि संस्थानमस्त्येव । अन्यथा हि आत्मत्वजातिरपि न स्यात्---तथाऽपि निरवयवस्य संस्थानासंभवपक्षाभिप्रायेणेदम् ॥
अर्थवत्सदृशं-गृहीतीर्थकशब्दतुल्यम् । अर्थवन्तं-गृहीतार्थकम् । मूलसादृश्यविनाशादिति । 'स्वभावविलक्षणेषु वस्तुषु सत्यामपि सादृश्यपरंपरायां स्तोकस्तोकभेदेनैव दूरमागतस्य मूलसादृश्यमत्यन्तमेव नश्येत् । विशेषतस्तु शब्दे-स्तोकविशेषादेवार्थान्यत्वं भवति, स्वरभेदादेव बहुव्रीहितत्पुरुषार्थभेदात् । किं पुनर्व्यञ्जन-मात्रा क्रमादिभेदात् ' इति पार्थसारथिः (1-1-6-268)॥
भिन्नैरित्यादि। ताल्वादिवैचित्र्यात् प्रतिपुरुषं उच्चरितेषु वर्णेष्वपि महदन्तरं प्रत्यक्षसिद्धम् ! एवं परस्परं असन्निहितानामपि यत्किञ्चित्सादृश्यमादायार्थप्रतीतिनिर्वाहे च नीहारादपि वह्नयनुमानं प्रमाणं स्यात् ॥
1 स्तमसौ-ख. 2 तस्याप्यन्य-स्त्र. ३ स्मरणं-ख. तत्सदृशसदृश-ख,