________________
518
मीमांसकैः शब्दनित्यत्वसाधनम् म्यायमअरी शृण्वन् गुणक्रियादिपरिहारेण गोत्वसामान्यमस्मन्मते, त्वन्मते वा तद्वन्मानं गोशब्दस्याभिधेयं निर्धारयतीति ॥
एवं दीर्घावसापेक्षसम्बन्धाधिगमावधि । शब्दस्य जीवितं सिद्धमिति नाशुविनाशिता ॥ १८८॥
[शब्दनित्यत्वाभावे शाब्दबोध एव न घटेत __ भवतु वा विनश्वर'स्यापि शब्दस्य सम्बन्धग्रहणम् । तथापि . तस्मिन् गृहीतसम्बन्धे शब्दे विनष्टे सति कथमनवगतसम्बन्धादभिनवादिदानीमन्यस्माच्छब्दादर्थप्रतिपत्तिः॥
अन्यस्मिन् ज्ञातसम्बन्धे यद्यन्यो वाचको भवेत्।
वाचकाः सर्वशब्दाः स्युरेकस्मिन् ज्ञात सङ्गतौ ॥ १८९॥ न च वक्ता व्यवहरमाणः तदैव शब्दं चोच्चारयति, सम्बन्ध करोति च, एतं च व्युत्पादयति, परं च व्यवहारयतीति । न हि युगपदिमाः क्रिया भवितुमर्हन्ति ; एवमदर्शनात् ॥ ..
[सर्वेषु शब्देषु साजात्यात् न शक्तिग्रहणसंभवः] . अथ आदौ सम्बन्धग्रहणे वृत्ते, तस्मिन् विनष्टेऽपि गोशब्दे, तत्सदृशमभिनवकृतमपि शब्दमुपश्रुत्यार्थ प्रतिपत्स्यन्ते व्यवहार इत्युच्यते तदपि न चतुरश्रम्-सादृश्यस्याग्रहणात् । न हि गोशब्द इवायमिति प्रतीतिदृष्टा, अपि तु गोशब्द एवेति। न च ___तद्वन्मात्रं-जातिविशिष्टव्यक्तिमात्रम् । जातिस्तु अनुगमिकैवेति पक्षाभिप्रायेणेदम् ॥
ननु शब्दस्य नाशेऽपि नष्टशब्दमूलकत्वं तच्छब्दकालिकव्यवहारस्य अनुमातुं शक्यमिति चेत्, एवं शक्तिनिर्धारेऽपि अनित्यात् शब्दात बोध: न भवत्येवेत्युपपादयति-भवतु वेत्यादिना । अन्यस्मात् शब्दात्-कालान्तरपुरुषान्तरप्रयुक्तात् — गां शुक्लामानय' इत्यादेः। न चेत्यादि। एकदैवोचरितेन शब्देन न हि सर्वे स्वपरव्यवहारादयः निर्वोदुं शक्या इत्यर्थः॥
1 नश्वर-ख.
जात-ख. 3 गोशब्दः स एवेति-ख.