________________
आह्निकम् ३]
शब्दानामनित्यत्वे शक्तिमहासंभवोपपादनम्
517
[शब्दनित्यत्वम्] तस्मादनित्यताऽसिद्धिः नैवं प्रायैरसाधनैः। शब्दस्य नित्यतायां तु सैषाऽर्थापत्तिरिष्यते ॥ १८४ ॥ शब्दस्योच्चारणं तावदर्थगत्यर्थमिष्यते । न चोच्चारितनष्टोऽयमर्थ गमयितुं क्षमः ॥ १८ ॥ सर्वेषामविवादोऽत्र शब्दार्थव्यवहारिणाम् । 'यद विज्ञातसम्बन्धः शब्दो नार्थस्य वाचकः ॥ १८६ ॥ वेद्यमानः स सम्बन्धः स्थविरव्यवहारतः। द्राधीयसा न कालेन विना शक्येत वेदितुम् ॥ १८७॥
. [वृद्धव्यवहारात् शब्दार्थसम्बन्धावधारणक्रमः] तथा हि-'गां शुक्लामानय' इत्येकवृद्धप्रयुक्तशब्दश्रवणे सति चेष्टमानमितरं वृद्धमवलोकयन् बालस्तटस्थः तस्यार्थप्रतीति तावत्कल्पयति-आत्मनि तत्पूर्विकायाश्चेष्टाया दृष्टत्वात् , प्रमाणान्तरासन्निधानादेतदृद्धप्रयुक्तशब्दसमनन्तरं च प्रवृत्तेः तत एव शब्दात् किमप्यनेन प्रतिपन्नमिति मन्यते। ततः क्षणान्तरे तमर्थ तेन वृद्धेनानीय मानमुपलभमान एवं बुद्धयते-अयमर्थोऽमुतश्शब्दादनेमावगत इति । स चार्थोऽनेकगुणक्रियाजातिव्यक्तयादिरूपसंकुल उपलभ्यते । शब्दोऽप्यनेकपदकदम्बकात्मा श्रुतः। तत्कतमस्य वाक्यांशस्य कतमोऽर्थांशो वाच्य इत्यावापोद्वापयोगेन बहुकृत्वः
___अर्थगतिः-अर्थज्ञानम् । उच्चारितनष्टः–अकिञ्चित्कुर्वन्निति यावत्। तर्हि शब्दः किं करोतीत्यत्राह-सर्वेषामिति । कुत्राविवाद इत्यत्राहयदिति। एवञ्च सम्बन्धस्मरणद्वाराऽर्थावगतिः शब्दोच्चारणफलम् ।।
चेष्टमानं-गवानयनाय चलन्तम् । इतरं-मध्यमम् । अर्थप्रतीतिचलनहेतुभूतं यत्किञ्चिदर्थज्ञानम् । आत्मनि-- स्वस्मिन् । तत्पूर्विकायाःज्ञानपूर्विकाया:। अनेन-मध्यमवृद्धेन ॥
1 यदि-ख. वृद्धेनानुमीय-क.