________________
516 मीमांसकैः शब्दनित्यत्वसाधनम्
न्यायमञ्जरी [वर्णानामविकारित्वम्] विकार्यत्वं त्वसिद्धमेव, शब्दान्तरत्वात्। दधिशब्द इकारान्तः संहिताव्यतिरिक्तविषयवृत्तिः। यकारस्त्वयमन्य एव अचि परतः संहिताविषये प्रयुज्यमानः। न पुनरिकार एवायं यकारीभूतः क्षीरमिव दधिभूतमुपलभ्यते। न ही यशास्तालव्या इति स्थानसादृश्यमात्रेण तद्विकारत्ववर्णनमुचितम, अप्रकृतिविकारयोरपि नयनोत्पलपल्लवयोः सादृश्यदर्शनात्। 'इको यणचि' इति पाणिनिस्मृतेरपि नायमर्थः--इकारो यकारीभवति, क्षीरमिव दधी भवतीति। किन्त्वस्मिन् विषयेऽयं वर्णः प्रयोक्तव्यः, अस्मिन्नयमिति सूत्रार्थः । सिद्ध शब्देऽथै सम्बन्धे च तच्छास्त्रं प्रवृत्तमिति ॥
___ अपि च क्षीरं दधित्वमुपैति, न तु दधि भीरताम् । इह तु यकारोऽपि क्वचिदिकारतामुपैति- विध्यतीति संप्रसारणे सति । तस्मादसिद्ध एव वर्णानां प्रकृतिविकारभावः ।।
[वृद्धि हासभाक्तमपि शब्दस्य नास्ति] नापि कारणवृद्धया वर्धते शब्दः। बलवताऽप्युच्चार्यमाणानि, बहुभिश्च, तावन्त्येवाक्षराणि। ध्वनय एव तथा तत्र प्रवृद्धा उपलभ्यन्ते, न वर्णा इति ॥
__अन्य एव, न तु इकार एव तथा विकृत इत्यर्थः । 'नयनेत्यादि। 'बाले ! तव मुखाम्भोजे चक्षुरिन्दीवरद्वयम् ' इत्यादाविदं दृष्टम्। क्षीरं दधीभवतीव इत्यन्वयः। सिद्ध इत्यादि। 'सिद्ध शब्देऽर्थे सम्बन्धे च लोकतोऽर्थप्रयुक्त शब्दप्रयोगे शास्त्रेण धर्मनियमः' इतिवार्तिकसङ्गहोऽयम् । 'अर्थेनात्मप्रत्यायनाय प्रयुक्तः - अर्थप्रयुक्तः' इति प्रदीपः। 'धर्माय नियमः, धर्मार्थो वा नियमः, धर्मप्रयोजनो वा नियम:-धर्मनियमः' इति भाष्यम् । धर्मः-विधिः॥
विध्यतीति । 'अहिज्यावयिव्यधि'--इत्यादिना यकारस्य संप्रसारणसंज्ञायां, 'संप्रसारणाच' इति पूर्वरूपे व्यधधातो रूपम् ॥
ध्वनय एवेति । तथा च वृद्धिहासादिकं वर्णेन सहगतस्य नाद. विकारस्य ध्वनेरेव धर्मः ॥
भवति-ख.
शब्दे -क.