SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ 515 आह्निकम् ३] शब्दानित्यत्वहेतूनामप्रयोजकत्वम् [विकारित्वाचानित्यः शब्दः] शब्दान्तरविकार्यत्वाचानित्यः शब्दः। दध्यत्रेति इकार एव यकारीभवतीति सादृश्यात् स्मृतेश्चावगम्यते। विकार्यत्वाच्च द्राक्षेक्षुरसादिवदनित्यत्वमस्येति॥ वृद्धिहासभाक्त्वाचानित्यः शब्दः) कारणवृद्धया च वर्धमानत्वात् । बहुभिर्महाप्रयत्नरुच्चार्यमाणो महान् गोशब्द उपलभ्यते, अल्पैरल्पप्रयत्नरुच्चार्यमाणोऽल्प इत्येतच तन्तुवृद्धया वर्धमानः 'पट इव शब्दोऽपि हेतुवृद्धया वर्धमानः कार्यो भवितुमर्हतीति ॥ . . . [शब्दानित्यत्वहेतूनामसाधकत्वम्] . त एते सर्व एवाप्रयोजका हेतवः। तथाहि-प्रात्यभिज्ञातः । सिद्ध नित्यत्वे प्रयत्नानन्तरमुपलभात् अभिव्यक्तिः प्रयत्नकार्या शब्दस्य, नोत्पत्तिरिति गम्यते। तदेवं व्यङ्गयेऽपि प्रयत्नानन्तरमुपलम्भसंभवादनैकान्तिकत्वम्। अभिव्यञ्जकानां च पवनसंयोगविभागानामचिरस्थायित्वान्न चिरमुच्चारणादूर्ध्वमुपलभ्यते शब्दः॥ प्रयोगाभिप्रायश्च करोति'शब्दव्यपदेशोऽस्य भविष्यति गोमयानि कुरु, काष्ठानि कुर्वितिवत्। तस्मात्सोऽपि नैकान्तिकः॥ नानादेशेषु युगपदुपलम्भनं एकस्य स्थिरस्यापि शब्दस्य विवस्वत इव सेत्स्यति ॥ स्मृतिः-व्याकरणं 'इको यणचि' इत्यादिरूपम् । महानिति । महत्वाल्पत्वे बहुदूरश्राव्यत्वाश्राम्यत्वे ॥ प्रात्यभिज्ञातः-स्वार्थिकः प्रत्ययः । स एवायं ककारः इति प्रत्यभिज्ञा ॥ गोमयानि कुर्विति। गोमयैरग्निमिन्धयेत्यर्थः । एवमुत्तरत्रापि ॥ नानादेशेष्विति। युगपत्सर्वैरनुपलम्भोऽपि अभिव्यक्तितदभावाभ्यामेवोपन्नः॥ 1 पट: शात:-ख. शम्दस्य-क. 33*
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy