SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ 514 मीमांसकैः शब्दनित्यत्वसाधनम् न्यायमारी उच्यते शब्दस्य' न ह्यनित्यत्वे युक्तिःस्फुरति काचन । प्रत्यक्षमापत्तिश्च नित्यतां त्वधिगच्छतः ॥ १८३ ॥ [शब्दस्यानित्यत्वसाधनानुवादः] तथा हि-अनित्यत्वहेतव इमे किल कथ्यन्ते, प्रयत्नानन्तरमुपलब्धेः कार्यः शब्द इति । कार्यत्वानित्यत्वयोः परस्पराविनाभावात् एकतरसिद्धावन्यतरसिद्धिर्भवत्येवेति क्वचित् किञ्चित् साधनमुच्यते प्रयत्नप्रेरितकौष्ठयमारुतसंयोगविभागानन्तरमुपलभ्यमानः शब्दस्तकार्य एवेति गम्यते। उच्चारणादूर्ध्वमनुपलब्धेः अनित्यः शब्दः। न ह्येनमुञ्चरितं मुहूर्तमप्युपलभामहे। तस्माद्विनष्ट इत्यवगच्छामः॥ : व्यवहारादपि शब्दः अनित्यः] : करोतिशब्दव्यपदेशाच्च कार्यः शब्दः। 'शब्दं कुरु', 'शब्द मा कार्षीः' इति व्यवहारः प्रयुञ्जते। ते नूनमवगच्छन्ति कार्यः शब्द इति ॥ [अनेकदेशेषु उपलम्भात् शब्दस्य नानात्वानित्यत्वे] . नानादेशेषु च युगपदुपलम्भात् 'तेषु तेषु देशेषु शब्देन व्यवहारात् सर्वत्र युगपदुपलभ्यते शब्दः। तदेकस्य नित्यस्य सतोऽनुपपन्नम्। कार्यत्वे तु बहूनां नानादेशेषु 'क्रियमाणानामुपपद्यतेऽनेकदेशसम्बन्ध इति ॥ अधिगच्छत :--अधिगमयत:॥ पूर्वमीमांसायाः प्रथमाध्यायाद्यपादे षष्टाधिकरणोक्तरीत्या शब्दनित्यत्वं निरूपयिष्यन् पूर्वपक्षसिद्धान्तौ तदधिकरणसूत्रभाष्यवार्तिकोक्तौ अनुवदति तथा हीत्यादि। कथ्यन्त इति। 'मादिमत्त्वादेन्द्रियकत्वात्कृतकवदुपचाराच' (न्या-सू-2-2-13) इत्यादिष्विति शेषः। ताल्वादौ कोष्ठे भवः-कौष्ठयः ॥ एकस्येति। यदा नित्य: सार्वत्रिकश्च शब्दः, तदा गगनादिवदेक एव स्यात् । नित्यस्य सत: अनेकत्वं तु अनवस्थादिग्रस्तम् ॥ - 1 न हि-ख. स्फुटति-ख. देशत्वाच्च-क. 4 तेषु तेषु देशेषु-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy