________________
आह्निकम् ३]
शब्दस्यानित्यत्वे प्रमाणाभाव:
513
-वेदपौरुषेयत्वसाधनप्रकरणम्[ईश्वरस्य जगत्स्रष्टत्वेऽपि वेदानां तत्कृतत्नाक्षेपः) ननु ! त्रैलोक्यनिर्माणनिपुणे परमेश्वरे। सिद्धेऽपि तत्प्रणीतत्वं न वेदस्यावकल्पते ॥१७४ ।। पदे शब्दार्थसम्बन्धे वेदस्य रचनासु वा। कर्तृत्वमस्याशङ्कथेत तच्च सर्वत्र दुर्वचम् ॥ १७॥ वर्णराशिः क्रमव्यक्तः पदमित्यभिधीयते । वर्णानां चाविनाशित्वात् कथमीश्वरकार्यता॥ १७६॥ सम्बन्धोऽपि न तत्कार्यः स हि शक्तिखभावकः । शब्दे वाचकशक्तिश्च नित्यैवान्नाविवोष्णता ॥ १७७॥ रचना अपि वैदिक्यो नैताः पुरुषनिर्मिताः । कविप्रणीतकाव्यादिरचनाभ्यो विलक्षणाः ॥१७८ ॥ एवं च बेदे स्वातन्त्र्यमीश्वरस्य न कुत्रचित् ।। कामं तु पर्वतानेष विदधातु भिनत्त वा ॥१७९॥ स्वतःप्रामाण्यसिद्धौ तु वेदे वस्त्रनपेक्षताम् । वदामो न तु सर्वत्र पुरुषद्वेषिणो वयम् ॥ १८०॥ अनपेक्षत्वमेवातो वेदप्रामाण्यकारणम् । युक्तं, वक्ताऽपि वेदस्य कुर्वन्नपि करोतु किम् ? ॥ १८१॥ [शब्दस्यानित्यत्वे प्रमाणाभावः, नित्यत्वे च प्रमाणम् ] कथं पुनरमी वर्णाः श्रुतमात्रतिरोहिताः । नित्या भवन्तु, कोऽयं वा शब्दस्वातन्त्र्यदोहदः? ॥ १८२॥
सर्वत्र-त्रिष्वपि । वर्णानां नित्यत्वात् --क्रमव्यक्त इति। सर्वत्रपौरुषेयवाक्येषु। अनपेक्षत्वमिति। 'तत्प्रमाणं बादरायणस्य, अनपेक्षत्वात्' (जै. सू. 1-1-5) इति हि सूत्रम् । एवं इतरानपेक्षतयैव तेन स्वप्रामाण्ये संरक्षिते वेदस्येश्वरकृतत्वेन किं साधनीयमित्यर्थः॥
सिद्धान्तिच्छाययाऽऽक्षिपति-कथमिति। श्रुतमात्रतिरोहिताःश्रवणसमनन्तरं नश्यन्तः। एवं वर्णाः पुरुषप्रयत्नोत्पाद्यमानाः श्रूयन्ते, प्रयत्नविरतौ च विरमन्ते । अथापि ते न पुरुषाधीनाः, किन्तु स्वतन्त्रा:नित्या इति किमिदमित्याश्चर्यद्योतनाय-शब्दस्वातन्त्र्यदोहद इति।
NYAYAMANJARI
33