SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ 512 ईश्वरसद्भावसमर्थनम् [न्यायमञ्जरी कर्मणामावश्यक वम्] ___ ननु ! एवं तर्हि ईश्वरेच्छैव भवतु की संहीं च। किं कर्मभिः!-मैवम्-कर्मभिर्विना जगद्वैचित्र्यानुपपत्तेः । कर्मनरपेक्ष्य पक्षेऽपि त्रयो दोषा दर्शिता एव (पु. 490)-ईश्वरस्य 'निर्दयत्वं, कर्म'चोदनानर्थक्यम् , अनिर्मोक्षप्रसङ्गश्चति। तस्मात् कर्मणामेव. नियोजने स्वातन्त्रयमीश्वरस्य, न तन्निरपेक्षम् ॥ [कर्मानुगुणं जगत्सर्जनेऽपि ईश्वरस्य न स्वातन्त्रयहानिः] किं तादृशैश्वर्येण प्रयोजनमिति चेत्-न-न प्रयोजनानुर्ति प्रमाणं भवितुमर्हति । किं वा भगवतः कर्मापेक्षिणोऽपि न प्रभुत्व मित्यलं कुतर्कलवलिप्तमुखनास्तिकालापपरिमर्दैन! ईश्वरवादोपसंहारः] तस्मात् कुतार्किकोद्गीतदूषणाभासवारणात् । सिद्धस्त्रैलोक्य निर्माणनिपुणः परमेश्वरः ॥ १७१ ॥ निरीश्वरवादिसंभाषणस्यापि पापत्वम् ] ' ये त्वीश्वरं निरपवाददृढप्रमाण सिद्धस्वरूपमपि नाभ्युपयन्ति मूढाः। पापाय तैस्सह कथाऽपि वितन्यमाना जायेत नूनमिति युक्तमतो विरन्तुम् ॥ १७२॥ यस्येच्छयैव भुवनानि समुद्भवन्ति तिष्ठन्ति यान्ति च पुनर्विलयं युगान्ते। तस्मै समस्तफलभोगनिबन्धनाय नित्यप्रबुद्धमुदिताय नमः शिवाय ॥१७३॥ किं वेति। कुतो वेत्यर्थः। तक्ष्णः तक्षणादिन्यापारेषु वास्याद्यपेक्षायाः सत्वेऽपि न हि स्वातन्त्र्यभङ्गः। अन्यथा तक्षा कतैव न स्यात् । स्वतन्त्रः खलु कर्ता। अतः सापेक्षत्नमात्रं न स्वातन्त्र्यभञ्जकम् ।। एवं निरीश्वरवादिभिस्सह कथायाः पापत्वेन, तत्प्रायश्चित्ततया भगवन्तं स्मरति-यस्येति । निबन्धनाय-हेतवे। नित्यप्रबुद्धमुदितायनित्यज्ञानानन्दस्वरूपाय ॥ 1निर्दयकर्म-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy