SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ आदिकम ३] सृष्टिप्रलयवत् स्थितेरपीश्वराधीनत्वम 511 मपि भूयसामपकारकारणमिति कथं तैः संभूय सृज्यते । अनधिष्ठितानान्त्वचेतनानामारम्भकत्वमयुक्तमेव। तस्मादवश्यमेकस्तेषां कर्मणामधिष्ठाता कल्पनीयः, यदिच्छामन्तरेण भवन्त्यपि कर्माणि न फलजन्मने प्रभवन्ति ॥ [ईश्वरस्य एकत्वम् ] अत एवैक ईश्वर इष्यते, न द्वौ, बहवो वा; भिन्नाभिप्रायतया लोकानुग्रहोपघातवैशसप्रसङ्गात् । इच्छाविसंवादसंभवेन च ततः कस्य चित् सङ्कल्पविघातद्वारकानैश्वर्यप्रसङ्गात् इत्येक एवेश्वरः । तदिच्छया कर्माणि कार्येषु प्रवर्तन्ते इत्युपपन्नः सर्गः। तदिच्छाप्रतिबन्धात् स्तिमितशक्तीनि कर्माण्युदासत इत्युपपन्नः प्रलयः॥ . . [सर्गप्रलयसद्भाव:] एवञ्च यदुक्तं (श्लो. वा. 1-1-5 सम्ब-परि ११३) 'तस्मादद्यवदेवात्र सर्गप्रलयकल्पना । समस्तक्षयजन्मभ्यां न सिद्धयत्यप्रमाणिका' इति-एतदपि ' असांप्रतम् ॥ सृष्टिप्रलयाभावेऽपि स्थितेरपीश्वरायत्तत्वम् ] तिष्ठतु वा सर्गप्रलयकालः ! अद्यत्वेऽपि यथोक्तनयेन तदिच्छा: मन्तरेण प्राणिनां कर्मविपाकानुपपत्तरवश्यमीश्वरोऽभ्युपगन्तव्यः, इतरथा सर्वव्यवहारविप्रलोपः। तदुक्तम् (म. भा, वन. 30-28) 'अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा' इति ॥ भवन्ति-वर्तमानानि ॥ वैशसं-व्यसनम् । सृष्टिविषयाणामनिष्टमुक्ता तत्कर्तृणामपि तदाह-- इच्छेति ॥ तिष्ठतु-माऽस्त्विति यावत्। अद्यत्वेऽपि · इदानीमपि ।। 1 न सांप्रतम्-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy