________________
510 ईश्वरगद्धावसमर्थनम्
न्यायमरी [सृष्टिप्रलयोपपत्ति] ननु च युगपदेव सकल जगत्प्रलयकरणमनपपन्नम्, अविनाशिनां कर्मणां फलोपभोगप्रतिबन्धासंभवादिति चोदितम् (पु. 489)-न युक्तमेतत्-ईश्वरेच्छाप्रतिबद्धानां कर्मणां स्तिमितशक्तीनामवस्थानात् । तदिच्छाप्रेरितानि कर्माणि फलमादधति। तदिच्छाप्रतिवद्धानि च तत्रोदासते। कस्मादेवमिति चेत्-अचेतनानां चेतनानधिष्ठितानां स्वकार्यकरणानुपलब्धेः॥
जीवानां कर्माधिष्ठातृत्वासंभवः] ननु ! तेषामेव कर्मणां कर्तार आत्मानश्चेतना अधिष्ठातारो. भविष्यन्ति। यथाह भट्टः (श्लो. वा. 1-1-5 सम्ब-परि ७५)
'कर्मभिः सर्वजीवानां तत्सिद्धेः सिद्धसाधनम्' इति
नैतदेवम्--नैतेऽधिष्ठातारो भवितुमर्हन्ति ; बहुत्वात्, विरुद्धाभिप्रायत्वाच्च। तथा ह्येक एव कश्चित् स्थावरादिविशेषो राजादिविशेषो वा प्राणिकोटीनामनेकविधसुखदुःखोपभोगस्य हेतुः, स तैर्बहुमिरव्यवस्थिताभिप्रायैः कथ'मारमेत? तेषामेकत्र संमानाभावात् । मठ परिषदोऽपि क्वचिदेव सकलसाधारणोपकारिणि कार्य भवत्यैकमत्यम् , न सर्वत्र । महाप्रासादाद्यारंभे बहूनां तक्षादीनामेकस्थपत्याशयानुवर्तित्वं दृश्यते । पिपीलिकानामपि मृत्कूटकरणे तुल्यः कश्चिदुपकारः प्रवर्तकः, स्थपतिवत् एकाशयानुवर्तित्वं वा कल्प्यम् । इह तु तत्स्थावरं शरीरं केपाश्चिदुपकारकारणं, इतरेषा
कर्मभिरित्यादि। सर्वजीवानामपि तसिद्धेः जगत्कर्तृत्वसिद्धेः । कर्मभिः द्वारभूतैः। सम्मान--सम्मति:, ऐकमत्याभावादित्यर्थः । मठपरिषदः- मठीयपरिषदः। सर्वत्र-यदुद्देशेन प्रवृत्तो मठः, परिषद्वा, तब्यतिरिक्तविषये। मृत्कूटं-वल्मीकादिः। स्थपतिवदिति । अस्ति वल्मीकादौ नियामकः कीटराजः, राज्ञी वा; यदधीनाः सर्व एवेतरे कीटाः स्वस्वकार्येषु असंकीर्णा व्यापृण्वन्ति, यस्मिंश्च मृते सर्वे स्वैरं चरन्त: नश्यन्तीति प्रत्यक्षसिद्धमेव ॥
1 मारभ्येत-ख.
शठ-ख.