________________
आह्निकम् ३] संघिसंहारयोः प्रयोजनम्
509 [लीलयाऽपि जगत्सृष्टिरुपपद्यते क्रीडार्थेऽपि जगत्सर्गे न हीयेत 'कृतार्थता' । प्रवर्तमाना दृश्यन्त न हि क्रीडासु दुःखिताः ॥ १७० ॥
[दययैव वा जगत्सृष्टिः] अथवा अनुकम्पयैव सर्गसंहारावारभतामीश्वरः ॥
[दयया जगत्सर्गेऽपि सुखदुःखादिवैषम्योपपत्तिः] नन्वत्र चोदितम् (पु. 488) 'न तथाविधाः प्राणिनोऽनुकम्प्या भवन्ति । केवलसुखस्वभावा वा सृष्टिरनुकम्पावता क्रियेतेतिसत्य चोदितम्-अनुपपन्नं तु; अनादित्वात्संसारस्य ।
सृष्टिसंहारयोः परमं फलम्] . शुभाशुभसंस्कारानुविद्धा एवात्मानः। ते च धर्माधर्मनिगडसंयत त्वादपवर्गपुरद्वारप्रवेशमलभमानाः कथं नानुकम्प्याः१ अनुपभुक्तफलानां कर्मणां न प्रक्षयः। सर्गमन्तरेण च 'तत्फलोपभोगासंभव इति शुभफलोपभोगाय स्वर्गादिसर्ग, अशुभफलोपभोगाय' नरकादिसृष्टिमारभते दयालुरेव भगवान् । उपभोगप्रबन्धेन परिश्रान्तानामन्तराऽन्तरा विश्रान्तये जन्तूनां भुवनोपसंहारमपि करोतीति सर्वमेतत्कृपानिबन्धनमेव ।।
. कृतार्थता-भवाप्तसमस्तकामत्वम्। अवाप्तसमस्तकामैरेव क्रीडारसः अनुभवितुं शक्यते। 'मायासबहुला चेय' (पु. 489) इत्यस्योत्तरंउत्तरार्धम् । 'न च क्रीडाऽपि निश्शेष' (पु. 489) इत्यस्योत्तरं तु सृष्टेर्दयामूलकत्वसाधनावसरे स्वयं प्राप्येतेति अत्र नोक्तम् ।।
निगड:-'अथ शृङ्खला। अन्दुको निगडोऽस्त्री स्यात् । न प्रक्षय इति। 'नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि'। यद्यपि प्रायश्चित्तादिनाऽप्यस्ति नाश:, एवं ब्रह्मज्ञानादपि ; अथापि तद्व्यतिरिक्तविषयं वचनम् ॥
1 क्रियार्थता-ख. ' अनुपपन्नं तु-ख. ३ संवृत-ख. + तत्फलभोगाय-ख.