SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ 508 ईश्वरसद्भावसमर्थनम् [ न्यायमअ चक्षते । तञ्चेश्वरे विद्यत एवेत्युक्तमेतत् । स्वशरीरप्रेरणे च दृष्टमशरीरस्याप्यात्मनः कर्तृत्वम || [ जगत्सर्गे ईश्वरस्य केशाभावः ] इच्छामात्रेण च तस्य कर्तृत्वात् अनेकव्यापार निर्वर्तनोपात्तदुर्वहक्लेशकालुष्य विकल्पोऽपि प्रत्युक्तः ॥ [ अशीरस्यापीश्वरस्य परमाणुप्रेरणं सङ्गच्छते ] ननु ! अत्रोक्तम् (पु. 487 ) — 'कुलालवच्च नैतस्य व्यापारो यदि कल्प्यते । अचेतनः कथं भावः तदिच्छा मनुवर्तते ?' इति ॥ अस्माभिरप्युक्तमेव यथा ह्यचेतनः कायः आत्मेच्छामनुवर्तते । - तदिच्छामनुवन्ते तथैव परमाणवः ।। १६९ ॥ [ स्वप्रयोजनं विनाऽपि ईश्वरस्य स्रष्टृत्वम् ] यस्तु प्रयोजनविकल्पः- किमर्थं सृजति जगन्ति भगवान् ? इति - सोऽपि न पेशलः । स्वभाव एवैष भगवतः - यत् कदाचित् सृजति, कदाचिच्च संहरति विश्वमिति ॥ कथं पुनर्नियतकाल एषोऽस्य स्वभाव इति चेत् — आदित्यं पश्यतु देवानांप्रियः ! यो नियतकालमुदेत्यस्तमेति च । प्राणिकर्मसापेक्षमेतद्विवस्वतो रूपमिति चेत्-ईश्वरेऽपि तुल्यः समाधिः ॥ नाविनाभावात् ज्ञानचिकीर्षे अपि क्रोडीकृते । जानाति, इच्छति, यतते इति किल क्रमः ॥ अचेतनः:- जडः भावः - पदार्थ : - परमाणुः ॥ प्राणिकर्मसापेक्षमिति । प्राणिनां तत्तत्कर्मानुभवाय आदित्यादयः स्वस्वकृत्यं कुर्वन्ति चेत् ईश्वरोऽपि तथैव । एतस्य फलं त्वनुपर्द स्पष्टी भविष्यति ॥
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy