________________
आदिकम् ३] अशरीरस्यापीश्वरस्य स्रष्टत्वसंभवः
507 नैष दोषः- अनात्ममनस्संयोगजत्वादिच्छा स्वरूपमात्रेण नित्याऽपि कदाचित्सर्गेण कदाचित्संहारेण वा विपयेणानुरज्यते। सर्गसंहारयोरन्तराले तु जगतः स्थित्यवस्थायां अस्माकर्मण इदमस्य संपद्यतामितीच्छा भवति प्रजापतेः॥
प्रयत्नस्तस्य सकल्पविशेषात्मक एव। तथा चागम:--'सत्यकामः सत्यसङ्कल्पः" (छा-ड-८-१-५) इति। 'कामः' इतीच्छा उच्यते, 'संकल्पः' इति प्रयत्नः। ... ईश्वरस्य आत्मविशेषरूपत्वम्] . तदेवं नवभ्य आत्मगुणेभ्यः पञ्च ज्ञानसुखेच्छाप्रयत्नधर्माः सन्तीश्वरे। चत्वारस्तु दुःखद्वेषाधर्म संस्कारा न सन्तीत्यात्मविशेष ऐवेश्वरो न द्रव्यान्तरम् । आह च पतञ्जलिः- 'क्लशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः' (यो-सू-१-२५) इति। सोऽय-. मागमात्, अनुमानात्, पक्षधर्मतो वा विशेषलाभ इति स्थितम् ॥
[अशरीर एवेश्वर:] यत्पुनर्विकल्पितं (पु 486)-'सशरीर ईश्वरः सृजति जगत् ? अशरीरो वा ? इति-तत्राशरीरस्यैव स्रष्टत्वमभ्युपगच्छामः ॥
. [अशरीरस्यापीश्वरस्य कर्तृत्वं युज्यते] : ननु ! क्रियाऽऽवेशनिबन्धनं कर्तृत्वं, न पारिभाषिकम् । तत् अशरीरस्य क्रियाविरहात् कथं भवेत् ? कस्य च कुत्राशरीरस्य कर्तृत्वं दृष्टमिति-उच्यते-शानचिकीर्षाप्रयत्नयोगित्वं कर्तृत्वमा . अनात्ममनस्संयोगजत्वात्--आत्ममनस्संयोगाजन्यत्वात् । अनु. रज्यते--संयुज्यते ॥
संकल्पेति । 'संकल्प: कर्म मानसम्'। यद्यपि मनोऽपेक्षा नास्ति । अथापि · इदं कुर्याम्' इत्याकारक: कश्चन धर्मः अस्त्येव, प्रत्यक्षवत् । मत एव 'विशेष' पदम् ॥
आहेति। 'पुरुषविशेष' पदं प्रयुञ्जान इति शेषः ॥ शानेति । यद्यपि कृतिमत्वमात्रं कर्तृत्वम् , अथापि तादृशकृतिहेतुत्वे