________________
506
ईश्वरसद्भावसमर्थनम्
[ ईश्वरज्ञानस्य इन्द्रियाजन्यत्वेऽपि प्रत्यक्षत्वम् ] प्रत्यक्ष साधर्म्याच्च तज्ज्ञानं प्रत्यक्षमुच्यते, न पुनरिन्द्रियार्थ - सन्निकर्षोत्पन्नत्वमस्यास्ति; अजनकानामेवार्थानां सवितृप्रकाशेनेव 'तेन ग्रहणात् ' ॥
[ईश्वरगुणानां सर्वेषां नित्यत्वम् ]
ज्ञानवदन्येऽप्यात्मगुणा येऽस्य सन्ति, ते नित्या एव मनस्संयोगानपेक्षजन्मत्वात् । दुःखद्वेषास्तस्य तावन्न सन्त्येव । भावनाख्येन संस्कारेणापि न प्रयोजनम् ; सर्वदा सर्वार्थदर्शित्वेन स्मृत्य - भावात् । अत एव न तस्यानुमानिकं ज्ञानमिष्यते । धर्मस्तु भूतानुग्रहवतो वस्तुस्वाभाव्याद्भवन्न वार्यते । तस्य च फलं परार्थनिष्पत्तिरेव । सुखं त्वस्य नित्यमेव, नित्यानन्दत्वेनागमात् प्रतीतेः । असुखितस्य चैवंविधकार्यारम्भयोग्यताऽभावात् ॥
न्यायमञ्जरी
[ईश्वरेच्छाया नित्यत्वेऽपि सृष्टिप्रलयाद्युपपत्तिः ]
'ननु' ज्ञानानन्दवदिच्छाऽपि नित्या चेदीश्वरस्य, तर्हि सर्वदा तदिच्छासम्भवात् सर्वदा जगदुत्पत्तिरिति जगदानन्त्यप्रसङ्गः । सर्गेच्छानित्यत्वाच्च संहारो न प्राप्नोति । संहारेच्छाया अपि नित्यत्वाभ्युपगमेन नक्तंदिनं प्रलयप्रबन्धो न विरमेदेव जगतामिति -
पुनरिति । अन्यथा तस्यानित्यत्वप्रसङ्गः । ननु विषयाणां प्रत्यक्षकारणत्वात् यदि ईश्वरज्ञानं सविषयकं तदा विषयजन्यत्वमनिवार्यमित्यत्राह - अजनकानामिति । सवितृप्रकाशेनेवेति । नूतनतयोत्पन्नोऽपि घटः यथा सूर्यप्रकाशेन क्रोडीक्रियते तथेत्यर्थः । ज्ञानं नाम अर्थविषयक : प्रकाश इत्युक्तम् ॥
न वार्यते इत्यनेन तदनभ्युपगमे हान्यभावः सूचितः । भूतानुग्रहस्य स्वभावत्वात् न धर्मस्य तत्रापेक्षा । आगमात् - 'विज्ञानमानन्दं ब्रह्म' इत्यादेः । एवं विधेति । परार्थैकफलेत्यर्थः ॥
' ग्रहणात - ख.
2 परमार्थ - ख.
'न-क.