________________
'आह्निकम् ३] ईश्वरस्य नित्यसर्वशत्वम्
505 [जीवानामज्ञत्वे परमात्मनः सर्वज्ञत्वे च निदानम् ] पुंसामसर्ववित्त्वं हि रागादिमलबन्धनम् । न च रागादिभिः स्पृष्टो भगवानिति सर्ववित् ॥ १६७ ॥ इष्टानिष्टार्थसंभोग'प्रभवाः खलु देहिनाम् ।
रागादयः कथं ते स्युर्नित्यानन्दात्मके शिवे ॥ १६८ ॥ मिथ्याज्ञानमूलाच रागादयो दोषाः; ते कथं नित्यनिर्मलज्ञानवतीश्वरे भवेयुः?
[ईश्वरस्य नित्यसर्वज्ञत्वम् ] नित्यं तज्ज्ञानं कथमिति चेत् तस्मिन् क्षणमप्यज्ञातरि सति तदिच्छाप्रेर्यमाणकर्माधीननानाप्रकारव्यवहारविरमप्रसङ्गात्। प्रलयवेलायां तर्हि कुतस्तन्नित्यत्वकल्पनेति चेत्-मैवम्-आप्रलयात्सिद्धे नित्यत्वे तदा विनाशकारणाभावात् अस्य आत्मन इव तज्ज्ञानस्य नित्यत्वं सेत्स्यति । पुनश्च सर्गकाले तदुत्पत्तिकारणाभावादपि नित्यं शानम् ॥
[ईश्वरज्ञानस्य एकत्वे प्रमाणम्] एवञ्च तदतीतानागतसूक्ष्मव्यवहितादिसमस्तवस्तुविषयं, न भिन्नम ; क्रमयोगपद्यविकल्पानुपपत्तेः। क्रमाश्रयणे कचिदज्ञातृत्वं स्यादिति व्यवहारलोपः। योगपद्येन सर्वज्ञातृत्वे कुतस्त्यो ज्ञानभेदः?
मिथ्याज्ञानमूला इति । भाष्यमपि 'ज्ञातारं हि रागादयः प्रवर्तयन्ति पुण्ये, पापे वा। यत्र मिथ्याज्ञानं तव रागद्वेषो' (1-1-18) इति ॥
. अशातरि–ज्ञानशून्ये। पुनश्चेति । 'धाता यथापूर्वमकल्पयत्' (तै-ना-१२) इत्यादौ 'यथापूर्व' पदात् सृष्टिप्रलयो स्त एव । यद्यपि प्रलये कर्माधीननानाव्यवहाराभावात् तत्प्रेरणार्थ ज्ञानापेक्षाऽपि न, अथापि पुनः सृष्ट्यर्थ तेषां परिपाकादिज्ञानं सृष्टेः पूर्वमेवावश्यक मेति प्रलयकालेऽपि ईशः सर्वज्ञ एव ॥
'प्रभवः-क. 2 नित्यत्वं तज्ज्ञानानाम्-ख.