________________
504
ईश्वरसद्भावसमर्थनम्
न्यायमञ्जरी
__यथा प्रावरकेभ्य' इव तत्कुशलः कुविन्दः, यथा च कुलाल: सकलकलशादिकार्यकलापोत्पत्तिसंविधानप्रयोजनाद्यभिज्ञो भवंस्तस्य कार्यचक्रस्य कर्ता, तथेयतस्त्रैलोक्यस्य निरवधिप्राणिसुखदुःख साधनस्य सृष्टिसंहारसंविधानं सप्रयोजनं बहुशाख जाननेव स्रष्टा भवितुमर्हति महेश्वरः। तस्मात्सर्वज्ञः॥
परमात्मनः सर्वज्ञत्वं स्वतस्सिद्धम् ] . अपि च यथा नियतविषयवृत्तीनां चक्षुरादीन्द्रियाणामधिष्ठाता क्षेत्रज्ञः तदपेक्षया सर्वज्ञः, एवं सकलक्षेत्रज्ञकर्मविनियोगेषु प्रभवन्नीश्वरः तदपेक्षया सर्वज्ञः । तथा चाह व्यासः (गी. 15-16, 17)
'द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽभर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ . मन्त्रश्च तदर्थानुवादी पठ्यते (मु. 3-1-1) (श्वे. 4-6)'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिंचाकशीति' इति ॥ अतश्च सर्वज्ञ ईश्वरः ॥
प्रावरकं-यवनिकादि। सप्रयोजनमिति। वक्ष्यते चानुपदमेव प्रयोजनं सृष्टिसंहारादेः ॥
तदपेक्षया-तच्छरीरापेक्षया। द्वाविमावित्यादि । 'उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तः देहेऽस्मिन् पुरुषः परः' (गी-13-22) इत्यादेरपीदमुपलक्षणम् । तदर्थानुवादी-तदुपबंहितार्थः । तथा च व्यासः-'इतिहासपुराणाभ्यां वेदं समुपबृहयेत् । बिभेत्यल्पश्रृंताद्वेद: मामयं प्रतरिष्यति' (म-भा मा. 1-265) इति ॥
'सुचेलरकेभ्य-ख