________________
आह्निकम् ३] ईश्वरस्य जीववैलक्षण्यसिद्धिप्रकारः
503 सिद्धेऽपि वस्तुनि वेदानां प्रामाण्यम् ] न च कार्य एवार्थे 'वेदाः' प्रमाणात मन्त्रार्थवादानामतत्परत्वमभिधातुमुचितम् ; कार्य इव सिद्धेऽप्यर्थे वेदप्रामाण्यस्य वक्ष्यमाणत्वात् (४ आह्निके)। न चेतरेतराश्रयम् (पु. 491); आगमैकशरणत्वाभावादीश्वरसिद्धः ॥
- [परिशेषानुमानात् ईश्वरस्येतरचेतनवैलक्षण्यसिद्धिः] __ अन्ये तु-अन्वयव्यतिरेकिहेतुमूलकेवलव्यतिरेकिबलेन विशेषसिद्धिमभिदधति । देहादिव्यतिरिक्तात्मकल्पन मिव सुखदुःखादिगतेन कार्यत्वेन वर्णयिष्यते-पृथिव्यादिकार्य अस्मदादिविलक्षणसर्वककर्तृकम् , अस्मदादिषु बाधकोत्पत्तौ सत्यां कार्यत्वादिति ।।
[पक्षधर्मताबलात्तदनुगुणविशेषाः ईश्वरे स्वयं सिध्यन्ति] अपरे--पक्षधर्मतावलादेव विशेषलाभमभ्युपगच्छन्ति। न हीदृशं परिदृश्यमानमनेकरूपमपरिमितमनन्तप्राणिगतविचित्रसुखदुःखसाधनं भुवनादिकार्य अनतिशयेन पुंसा कर्तुं शक्यमिति ।।
यथा चन्दनधूममितरधूमविसदृशमवलोक्य चन्दन एव वह्निरनुमीयते, तथा विलक्षणात् कार्यात् विलक्षण एव कर्ताऽनुमास्यते ॥ . कार्य एवेति--वृद्धव्यवहाराच्छक्तिग्रहे तत्र आनयनादिकार्यान्वित एव शक्तिप्रहात् , सिद्धार्थबोधकवाक्यानां न स्वार्थे प्रामाण्यमिति मीमांसकाः । 'अयं घटः' इत्यादिसिद्धपरवाक्यैरपि बोधानुभवात् सिद्धपरवाक्यान्यपि स्वार्थे प्रमाणानीति सिद्धान्तः ॥
अन्ये विति। हेत्वसिद्धिपरिहाराय कार्यत्वादीनामप्यनुमानेन साधनीयत्वात् , कार्यत्वानुमानस्यान्वयव्यतिरेकित्वात् तन्मूलकं परिशेषानुमानम् । सुखदुःखादीति। 'इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ' (1-1-10) इति सूत्रम् । ७ आह्निके इदं व्याख्यास्यते । अस्मदादौ बाधकोत्पत्तिश्च प्रत्यक्षादेव ।।
विलक्षण एव कर्तेति। निखिलजगद्वेतुतया सिध्यन् हीश्वरः तदनुगुणज्ञानशक्त्यादिविशिष्ट एव खलु सिध्येत् । अतः धर्मियाह के नानमानेनैव ईश्वरस्येतरचेतनवैलक्षण्यसिद्धिः ॥
- वेद:-ख